________________
वैमानिकलोकाधिकारः।
२३१
विहित । ये विविधतपोरत्नभूषाः ज्ञानशुचयः शीलवस्त्रसौम्यांगा तेषामेव सुरलक्ष्मीः सिद्धिलक्ष्मीश्च वश्या भवति ॥ ५५५ ॥
इदानीमष्टमभूमिस्वरूपमाह;तिहुवणमुड्ढारूढा ईसिपमारा धरट्ठमी रुंदा । दिग्या इगिसगरज्जू अडजोयणपमिदबाहल्ला ॥५५६॥
त्रिभुवनमूर्धारूढा ईषत् प्राग्मारा धराष्टमी रुंद्रा ।
दीर्घा एकसप्तरजू अष्टयोजनप्रमितबाहल्या ॥ ५५६ ॥ तिहुवण । त्रिभुवनमूर्धारूढा ईषत्प्राग्भारसंज्ञा अष्टमी धरा तस्या रुंद्र दैर्घ्य च एकसप्तरज्जू भवतः । तस्या बाहल्यमष्टयोजनप्रमितम् ॥५५६॥
अथ तन्मध्यस्थासिद्धक्षेत्रस्वरूपं गाथाद्वयेनाह;तम्मज्झे रूप्पमयं छत्तायारं मणुस्समहिवासं । सिद्धक्खेत्तं मज्झडवेहं कमहीण बेहुलियं ॥ ५५७ ॥
तन्मध्ये रूप्यमयं छत्राकारं मनुष्यमहीव्यासं । सिद्धक्षेत्र मध्येष्टवेधं क्रमहीनं बाहुल्यम् ॥ ५५७ ॥ तम्मज्झे। तन्मध्ये रूप्यमयं छत्राकारं मनुष्यक्षेत्रव्यासं सिद्धक्षेत्रमस्ति । तद्वाहल्यं मध्ये अष्टयोजनवेधं अन्यत्र सर्वत्र कमहीनं ज्ञातव्यम् ॥ ५५७ ॥ उत्ताणट्ठियमंते पत्तं व तणु तदुवरि तणुवादे । अट्ठगुणड्डा सिद्धा चिट्ठति अणंतसुहतित्ता ॥ ५५८ ॥
उत्तानस्थितमंते पात्रमिव तनु तदुपरि तनुवाते ।
अष्टगुणाढ्याः सिद्धाः तिष्ठति अनंतसुखतृप्ताः ॥ ५५८ ॥ उत्ताण । अंते तनुरूपमुत्तानस्थितपात्रमिव चषकमिवेत्यर्थः तस्य सिद्धिक्षेत्रस्योपरिमतनुवाते अष्टगुणाढ्या अनंतसुखतृप्ताः सिद्धाः तिष्ठति ॥ ५५८ ॥