________________
२३२
त्रिलोकसारे
- अथ अनंतसुखतृप्तत्वे दृष्टांतांतरं गाथाद्वयेनाह;.एयं सत्थं सव्वं सत्थं वा सम्ममेत्थ जाणंता। तिव्वं तुस्संति णरा किण्ण समत्थत्थतञ्चण्हा ॥५५९ ॥
एक शास्त्रं सर्व शास्त्रं वा सम्यगत्र जानतः ।
तीनं तुष्यति नराः किं न समस्तार्थतत्त्वज्ञाः ॥ ५५९ ।। एयं । एकं शास्त्रं सर्व शास्त्रं वा सम्यगत्र जानंतो नरास्तीवं तुष्यंति समस्तार्थतत्त्वज्ञास्तु सिद्धाः किं न तुष्यंति ? अपि तु तुष्यंत्येव ॥ ५५९ ॥ चक्किकुरुफणिसुरेंदेसहमिंदे जं सुहं तिकालभवं । तत्तो अणंतगुणिदं सिद्धाणं खणसुहं होदि ॥ ५६० ॥
चक्रिकुरुफणिसुरेंद्रेषु अहमिंद्रे यत् सुखं त्रिकालभवं ।
तत अनंतगुणितं सिद्धानां क्षणसुखं भवति ।। ५६० ॥ चक्कि । चक्रिषु कुरुषु फणींद्रेषु सुरेंद्रेष्वहमिंद्रेषु च पूर्वपूर्वस्मादुत्तरोत्तरेषामनंतगुणितं यत्सुखं त्रिकालभवं ततः सर्वेभ्यः सिद्धानां क्षणोत्थं सुखमनंतगुणितं भवति ।। ५६० ॥ इति श्रीनेमिचंद्राचार्यविरचिते त्रिलोकसारे वैमानिकलोका
धिकारः ॥५॥