________________
वैमानिकलोकाधिकारः।
नरतिर्यम्गतिभ्यां भवनत्रयाच निर्गता जीवाः ।
न लभते ते पदवीं त्रिषष्टिशलाकापुरुषाणाम् ॥ ५४९ ॥ णरतिरिय । नरतिर्यग्गतिभ्यां भवनत्रयाञ्च निर्गता जीवास्ते त्रिषष्टिशलाकापुरुषाणां पदवीं न लभन्ते ॥ ५४९ ।।
अथ देवानामुत्पत्तिस्वरूपमाह;सुहसयणग्गे देवा जायंते दिणयरोव्व पुवणगे । अंतोमुड्डत्त पुण्णा सुगंधिसुहफाससुचिदेहा ॥ ५५० ॥
सुखशयनाग्रे देवा जायते दिनकर इव पूर्वनगे।
अंतर्मुहूर्ते पूर्णाः सुगंधिसुखस्पर्शशुचिदेहाः ॥ ५५० ॥ सुहसयण । पूर्वाचले दिनकर इवान्तर्मुहूर्ते षट्पर्याप्त्या पूर्णाः सुगन्धिसुखस्पर्शशुचिदेहास्ते देवास्सुखशयनाये जायन्ते ॥ ५५० ॥
अथ तत्रोत्पन्नानां तदनंतरं कृत्यविशेष गाथात्रयेणाह;आणंदतूरजयथुदिरवेण जम्मं विबुज्झ सं पत्तं । दट्ठण सपरिवारं गयजम्मं ओहिणा णव्वा ॥ ५५१ ॥
आनंदतूर्यनयस्तुतिरवेण जन्म विबुध्य स्वं प्राप्तं ।
दृष्ट्वा सपरिवारं गतजन्म अवधिना ज्ञात्वा ॥ ५५१ ॥ आनंद । आनन्दतूर्यरवेण जयस्तुतिरवेण चेदं देवजन्मेति विबुध्य स्वं प्राप्तं स्वपरिवारं च दृष्ट्वा अवधिज्ञानेन गतजन्म च ज्ञात्वा ।। ५५१ ॥ धम्मं पससिदूण हादूण दहे भिसेयलंकारं । लद्धा जिणाभिसेयं पूजं कुवंति सदिट्ठी ॥ ५५२ ॥
धर्म प्रशंस्य नात्वा हृदे अमिषेकालंकारं । लब्ध्वा जिनाभिषेकं पूजां कुर्वति सदृष्टयः ॥ ५५२ ।।