________________
૨૨૮
त्रिलोकसारे
मिजा मिथ्यादृष्टयो भवनत्रयं यान्ति न तत उपरि । पंचाग्न्यादिसाधकास्तापसा उत्कृष्टेन भवनत्रयं यान्ति न तत उपरि ॥ ५४६ ॥ चरया य परिव्वाजा बह्मोत्तरपदोत्ति आजीवा। अणुदिसअणुत्तरादो चुदा ण केसवपदं जांति ॥५४७॥
चरकाश्च परिव्राजा ब्रह्मोत्तरपदांतं आजीवाः।
अनुदिशानुत्तरतः च्युता न केशवपदं यांति ॥ ५४७ ॥ चरणाय । नग्नांडलक्षणाश्चरका एकदण्डित्रिदंडिलक्षणाः परिव्राजका ब्रह्मकल्पपर्यन्तं यान्ति गच्छन्ति न तत उपरि। कंजिकादिभोजिनः आजीवा अच्युतकल्पपर्यन्तं यान्ति न तत उपरि । साम्प्रतं देवगतेप्रच्यतानामुत्पत्तिस्वरूपमाह-अनुदिशानुत्तरविमानेभ्यश्च्युताः केशवपदं वासुदेवप्रतिवासुदेवपदं न यान्ति ॥ ५४७ ॥
अथातश्च्युत्वा निर्वाणं गच्छतां नामान्याह;सोहम्मो वरदेवी सलोगवाला य दक्षिणमरिंदा । लोयंतिय सव्वट्ठा तदो चुदा णिव्वुदि जांति ॥५४८॥
सौधर्मो वरदेवी सलोकपालाश्च दक्षिणामरेंद्राः ।।
लौकांतिकाः सर्वार्थाः ततश्श्युता निवृत्ति यांति ॥५४८॥ सोहम्मो । सौधर्मेन्द्रस्तस्य पट्टदेवी शची तम्य सोमादिलोकपाला दक्षिणामरेन्द्राः सर्वे लौकान्तिकाः सर्वे सर्वार्थसिद्धिजाः सर्वे ततो देवगतेश्युता नियमेन निवृतिं यान्ति ॥ ५४८॥
अथ त्रिषष्टिशलाकापुरुषाणां पदवीमप्रामुवतां नामान्याह;णरतिरियगदीहिंतो भवणतियादो य णिग्गया जीवा। ण लहंते ते पदविं तेवट्ठिसलागपुरिसाणं ॥ ५४९ ॥