SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ वैमानिकलोकाधिकारः। २२७ अथ तेषामुच्छ्वासाहारकालौ निरूपयति;पक्खं वाससहस्सं सगसगसायरसलाहि संगुणियं । उस्सासाहाराणं कमेण माणं विमाणेसु ॥५४४ ॥ पक्षो वर्षसहस्रं स्वकस्वकसागरशलाभिः संगुणितं । उच्छासाहाराणां क्रमेण मानं विमानेषु ॥ ५४४ ॥ पक्खं वास । पक्षो १५ वर्षसहस्रं १००० सोहम्मवरं पल्लं वरमुवहि बिसत्तेत्यायुक्तस्वकीयस्वकीयसागरशलाकाभिः संगुणितं दिन ३० वर्ष २००० उच्छासाहाराणां प्रमाणं विमानेषु क्रमेण ज्ञातव्यम् ॥ ५४४ ॥ अथ गुणस्थानमाश्रित्य देवगतावुत्पद्यमानानां स्वरूपं गाथात्रयेणाह;णरतिरिय देसअयदा उक्कस्सेणचुदोत्ति णिग्गंथा। णय अयद देसमिच्छा गेवेजंतोत्तिगच्छति ॥५४५॥ नरतियँचः देशायता उत्कृष्टेनाच्युतांतं निग्रंथाः । न च अयता देशमिथ्या ग्रैवेयांतं इति गच्छंति ॥ ५४५॥ णरतिरिय । असंयता देशसंयता वा नरास्तिर्यञ्चश्चोत्कृष्टेनाच्युतपर्यन्तं गच्छन्ति । द्रव्यनिर्ग्रन्था नरा भावेनासंयता भावेन देशसंयताः भावेन मिथ्यादृष्टयो वा उपरिमोवेयकपर्यन्तं गच्छन्ति ॥ ५४५॥ सवट्ठोत्ति सुदिट्ठी महव्वई भोगभूमिजा सम्मा। सोहम्मदुर्ग मिच्छा भवणतियं तावसा य वरं ॥५४६॥ सर्वार्थातं सुदृष्टिः महाव्रती भोगभूमिजा सम्यंचः। सौधर्मद्विकं मिथ्या भवनत्रयं तापसाः च वरं ॥ ५४६ ॥ . सव्वहो। सर्वार्थसिद्धिपर्यन्तं सदृष्टिद्रव्यभावरूपेण महाव्रती गच्छति। भोगभूमिजाः सम्यग्दृष्टयः सौधर्मद्विकं गच्छन्ति न ततः उपरि । भोगभू
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy