________________
२२६
त्रिलोकसारे
उदधिदलं पल्यार्धं भवने व्यंतरद्विके क्रमेणाधिकं ।
समीचि मिथ्ये घाते पल्यासंख्यं तु सर्वत्र ॥ ५४१ ॥ उवहिदलं।घातायुष्के सम्यग्दृष्टौ भवने व्यन्तरज्योतिष्कयोश्च यथाक्रमं तत्र तत्रोक्तायुषः सकाशादर्द्धसागरोपमं पल्याई चाधिकं ज्ञातव्यम् । घातायुष्के मिथ्यादृष्टौ तु पल्यासंख्यातभागं तथाधिकं ज्ञेयं । एवं सर्वत्र कल्पेष्वपि ॥ ५४१ ॥
अथ कल्पस्त्रीणां स्थितिप्रमाणं कथयति;साहियपलं अवरं कप्पदुगित्थीण पणग पढमवरं । एकारसे चउक्के कप्पे दोसत्तपरिवड्डी ॥५४२॥
साधिकपल्यं अवरं कल्पद्विके स्त्रीणां पंचकं प्रथमवरं ।
एकादशे चतुष्के कल्पे द्विसप्तपरिवृद्धिः ॥ ५४२ ॥ साहिय । सौधर्मकल्पदिकस्त्रीणामवरमायुः साधिकपल्यं प्रथमे सौधर्मे वरमायुः पंचपल्यं । अथ ईशानायेकादशे कल्पे आनतादिचतुःकल्पे च यथासंख्यं सौधर्मोक्तपंचपल्यात् द्विवृद्धिः सप्तपरिवृद्धिश्च ज्ञातव्या॥ ५४२ ॥
इदानीं देवानां शरीरोत्सेधमाह;-- दुसु दुसु चदु दुसु दुसु चउ तित्तिसु सेसेसु देहउस्सेहो। रयणीण सत्त छप्पणचत्तारि दलेण हीणकमा ॥५४३॥
द्वयोर्द्वयोः चतुर्ता द्वयोर्द्वयोःचतुषु त्रिस्त्रिषु शेषेषु देहोत्सेधः ।
रत्नीनां सप्त षट् पंचचत्वारः दलेन हीनक्रमः ॥ ५४३ ॥ दुसु दुसु । द्वयोईयोश्चतुषु द्वयोर्दयोश्चतुर्पु त्रिस्त्रिषु शेषेष्विति दशसु स्थानेषु देहोत्सेधो यथासंख्यं सप्त ७ षट् ६ पंच ५ चत्वारो ४ रत्नयः तत उपरि अर्द्धहस्तहीनक्रमो ज्ञातव्यः ॥ ५४३ ॥