________________
त्रिलोकसारे
दुसु दुसु । द्वयो २ यो २ स्त्रिचतुष्केषु च १२ ग्रैवेयकादिषु नवसु अनुदिशादिषु चतुर्दशविमानेषु सप्तस्थानेषु विकुर्वणाशक्तिर्यथासंख्यं प्रथमपृथिवीतः आरभ्य सप्तमक्षितिपर्यन्तं ज्ञातव्या।अवधिज्ञानं च तथा ज्ञातव्यम् । उपरि तदज्ञानं कथमिति चेत् । देवाः स्वकीयस्वकीयकल्पविमानध्वजदण्डादुपरि न पश्यन्ति । नवानुत्तरविमानवासिदेवा आत्मीयात्मीयविमानशिखरादधो यावद्वाह्यं वातवलयं तावत्किंच्चिन्यूनचतुर्दशरज्ज्वायतामेकरज्जुविस्तारां सर्वलोकनालिं पश्यन्ति ॥ ५२७ ॥ सव्वं च लोयणालिं पस्संति अणुत्तरेसु जे देवा । सगखेत्ते य सकम्मे रूवगदमणंतभागो य ॥ ५२८ ॥
सर्वी च लोकनालिं पश्यंति अनुत्तरेषु ये देवाः ।
स्वकक्षेत्रे च स्वकर्मे रूपगतमनंतभागं च ॥ ५२८ ॥ सव्वं च। पंचानुत्तरेषु ये देवास्ते सर्वां च लोकनालिं पश्यन्ति । अवधेप्तिप्रकार उच्यते । स्वक्षेत्रे एकप्रदेशोऽपनेतव्यः । स्वकर्मणि एको ध्रुवभागहारोदातव्यः यावत्प्रदेशसमाप्तिः। अनेनावधिविषयद्रव्यभेदः सूचितः । एतदर्थविशदं करोति । कल्पसुराणां स्वस्वावाधिक्षेत्र विगतविस्रसोपचयमवधिज्ञानावरणद्रव्यं च संस्थाप्य - स ७.१३ एकप्रदेशमपनीय एकेन ध्रुवहारेण भजेत् यत्स्वस्वावधिविज्ञानविषयद्रव्यप्रमाणं भवति ॥ ५२८ ॥ अथ वैमानिकदेवानां जननमरणान्तरं निरूपयति;दुसुदुसु तिचउक्नेसु य सेसे जणणंतरं तु चवणे य । सत्तदिण पक्ख मासं दुगचदुछम्मासगं होदि ॥५२९ ॥
द्वयोर्द्वयोः त्रिचतुष्केषु च शेषे जननांतरं तु च्यवने च । सप्तदिनानि पक्षं मासं द्विकचतुःषण्मासकं भवति ॥ ५२९ ॥