SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ वैमानिक लोकाधिकारः । दुसुदुसु । दयोर्द्वयोस्त्रिचतुष्केषु शेषे चेति षट्सु स्थानेषु जननरहितान्तरकालो मरणरहितान्तरकालश्च यथासंख्यं सप्तदिनानि पक्ष मासं द्विमासं चतुर्मासं षण्मासं च भवति ॥ ५२९ ॥ २२१ अथेन्द्रादीनामुत्कृष्टान्तरमाह; - वरविरहं छम्मासं इंदमहादेविलोयपालाणं । चउ तेत्तीससुराणं तणुरक्खसमाणपरिसाणं ॥ ५३० ॥ वरविरहं षण्मासं इंद्रमहादेविलोकपालानाम् । चतुः त्रयस्त्रिंशसुराणां तनुरक्षसमानपारिषदानाम् ॥ १३० ॥ वरविरहूँ । इन्द्राणां तन्महादेवीनां लोकपालानां चोत्कृष्टेन विरहकालं षमासं जानीहि । त्रयस्त्रिंशत्सुराणां तनुरक्षाणां सामानिकानां पारिषदानां च चतुर्मासं विरहकालं जानीहि ॥ ५३० ॥ अथ देवविशेषाणां भवस्थानं प्रतिपादयति ; - ईसाणलांतवच्चदकप्पोत्ति कमेण होति कंदप्पा | किमसिय आभिजोगा सगकप्पजहण्ण ठिदिसहिया । ईशानलांत वाच्युतकल्पांतं क्रमेण भवति दर्पाः । किल्बिषिका अभियोग्याः स्वककल्पजघन्यस्थितिसहिताः ५३१ ईसाण । अत्र विलक्षणकांदर्पपरिणामयुक्ताः स्वयोग्य शुभ कर्मवशात् ईशान कल्पपर्यन्तं कंदर्पदेवा भूत्वा उत्पद्यन्ते न तत उपरि । अत्र गीतोपजीवलक्षण कैल्बिषिक परिणामयुक्ताः स्वयोग्यशुभकर्मवशात् खांतव कल्पपर्यन्तं तत्रा-विकिल्बिषका एवोत्पद्यन्ते न तत उपरि । अत्र सावद्यक्रियासु स्वहस्तव्यापारलक्षणाभियोग्यभावनायुक्ताः स्वयोग्यशुभकर्मवशात् अच्युतकल्पपर्यन्तं तत्राप्याभियोग्यदेवा भूत्वा उत्पद्यन्ते न तत उपरि । एते सर्वे स्वकीयकल्पजघन्यस्थितिसहिताः सन्तः ॥ ५३१ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy