________________
२९६
त्रिलोकसारे
मास्थानमण्डपं अस्ति । तस्य दीर्घव्यासौ शतयोजनतद्दलौ तयोमिलितोभययोर्दल उत्सेधः स्यात् ॥ ५१५ ॥
अथ आस्थानमण्डपद्वारं तदन्तस्थपदार्थान् गाथात्रयेणाह;पुवुत्तरदक्खिणदिस तद्दारा अट्ठवास सोलुदया। मज्झे हरिसिंहासणमडदेवीणासणं पुरदो ॥ ५१६ ॥
पूर्वोत्तरदक्षिणदिशि तद्दाराणि अष्टव्यासः षोडशोदयाः । मध्ये हरिसिंहासनं अष्टदेवीनामासनानि पुरतः ॥ ५१६ ॥
पुव्वत्तर । तस्यास्थानमण्डपस्य पूर्वोत्तरदक्षिणदिशि द्वाराणि सन्ति । तस्य व्यासः अष्टयोजनानि उत्सेधस्तु षोडशयोजनानि तन्मध्ये स्थाने हरिसिंहासनं । तत्सिंहासनात्पुरतः अष्टपट्टदेवीनामासनानि स्युः ॥ ५१६ ॥ तवाहिँ पुवादिसु सलोयवालाण परिसतिदयस्स। अग्गिजमणेरिदीए तेत्तीसाणं तु णेरिदिए ॥५१७ ॥ तबहिः पूर्वादिषु स्वर्लोकपालानां परिषत्रितयस्य । अग्नियमनैर्ऋत्यां त्रयस्त्रिंशतां तु नैर्ऋत्याम् ॥ ५१७ ॥ तवाहिं । तासां देवीनामासनादहिः पूर्वादिषु दिक्षु लोकपालानां सोमयमवरुणकुबेराणां आसनानि सन्ति परिषत्रयस्यासनानि १२०००।१४००० १६००० इन्द्रासनस्य आग्नेययमनैऋत्यां दिशि सन्ति त्रायस्त्रिंशद्देवानामासनानि अपि ३३ नैर्ऋत्यां दिश्येव सन्ति ॥ ५१७ ॥ सेणावईणमवरे समाणियाणं तु पवणईसाणे। तणुरक्खाणं भद्दासणाणि चउदिसगयाण बहि॥५१८॥
सेनापतीनामपरस्यां सामानिकानां तु पवनैशाने । तनुरक्षाणां भद्रासनानि चतुर्दिशागतानि बहिः ॥ ५१८ ॥