________________
२०२
त्रिलोकसारे
उत्तरश्रेणीबद्धा वायव्येशानकोणगप्रकीर्णानि ।
उत्तरेन्द्रनिबद्धानि शेषाणि दक्षिणदिगींद्रप्रतिबद्धानि॥४७॥ उत्तरसेढी । उत्तरश्रेणीबद्धा वायव्येशानकोणगतप्रकीर्णकानि च उत्तरेन्द्रनिबद्धानि। शेषाणि सर्वविमानानि दक्षिणदिगीन्द्रप्रतिबद्धानि ४७६
इदानीमिन्द्रकादीनां व्यासं निरूपयति;इंदयसेढीबद्धप्पइण्णयाणं कमेण वित्थारा । संखेजमसंखेज उभयं चय जोयणाणं तु ॥४७७॥
इंद्रकश्रेणीबद्धप्रकीर्णकानां क्रमेण विस्ताराः । संख्येयं असंख्येयं उभयं च योजनानां तु ॥ ४७७ ॥ इंदयसे । इन्द्रकश्रेणीबद्धप्रकीर्णकानां क्रमेण विस्ताराः संख्येययोजनानि असंख्येययोजनानि संख्येयासंख्येययोजनानि भवेयुः ॥ ४७७ ॥
अथ सौधर्मादिषु संख्यातासंख्यातविस्तारविनानसंख्यां गाथाद्वयेनाह;कप्पेसु रासिपंचमभागं संखेजवित्थडा होति । तत्तो तिण्णट्ठारस सत्तरसेक्केकयं कमसो॥ ४७८ ॥
कल्पेषु राशिपंचमभागं संख्येयविस्तारा भवंति ।
ततः त्रीण्यष्टादश सप्तदशैकमेकं क्रमशः ॥ ४७८ ॥ कप्पेसु । कल्पेषु बत्तीसहाबीसमित्यादि उक्तराशीनां ३२ ल. पंचमभागप्रमाण ६४०००० संख्यातयोजनविस्तारविमानानि भवति । ततः कल्पेभ्यः परतो नवग्रैवेयकादिषु त्रीणि अष्टादश सप्तदशैकमेकं च क्रमशः संख्यातयोजनविस्तृतानि भवन्ति ॥ ४७८ ॥ सगसगसंखेज्जूणा सगसगरासी असंखवासगया। अहवा पंचमभागं चउगुणिदे होंति कप्पेसु ॥ ४७९ ॥