________________
ज्योतिर्लोकाधिकारः।
२०१
३ मा १ । उपरि सर्वत्र चतस्रः ४ उत्तराः। गच्छस्तु स्वस्वपटलप्रमाणं स्यात् सनत्कुमारादौ ७।४।२।१।१।६।३।३।३१ इत्थमाद्युत्तरगच्छं ज्ञात्वा तत्तद्धनं उपर्युपरि दक्षिणोत्तरेन्द्राणामेवमानेतव्यं ॥ ४७३ ॥
अथ तत्र प्रथमेन्द्रकस्य श्रेणीबद्धानामवस्थितोद्देशकमुपदिशति;उडुसेढीबद्धदलं सयंभुरमणुदाहपणिधिभागसि । आइल्लतिण्णि दीवे तिण्णि समुद्दे य सेसा हु ॥४७४ ॥
ऋतुश्रेणीबद्धदलं स्वयंभुरमणोदधिप्रणिधिभागे ।
आदिमत्रिषु द्वीपेषु त्रिषु समुद्रेषु च शेषं हि ॥ ४७४ ॥ उडुसेढी । ऋविन्द्रकश्रेणीबद्धार्द्ध ३१ स्वंयभूरमणोदधिप्रणिधिभागे तिष्ठति । शेषार्द्ध तु ३१ स्वयम्भूरमणसमुद्रादर्वाचीनेषु स्वयम्भूरमणादिषु त्रिषु द्वीपेषु त्रिषु समुद्रेषु च १५।८।४।२।१।१ तिष्ठति ॥ ४७४ ॥ ___ अथ प्रकीर्णकानां स्वरूपं प्रमाणं चाह;सेढीणं विच्चाले पुप्फपइण्णग इव ट्ठियविमाणा। होति पइण्णइणामा सेढींदयहीणरासिसमा ॥४७५॥
श्रेणीनां विचाले पुष्पप्रकर्णिकानि इव स्थितविमानानि । ____ भवंति प्रकीर्णकनामानि श्रेणींद्रकहीनराशिसमानि ॥ ४७५ ॥
सेढीणं । श्रेणीबद्धानां विच्चाले अन्तराले पुष्पाणि प्रकीर्णकानि इव स्थितानि विमानानि प्रकीर्णकनामानि भवन्ति । तानि श्रेणीन्द्रकहीनराशिसमानानि । तत्कथं ? बत्तीसहाबीसमित्यायुक्तसौधर्मादिराशिभ्यः श्रेणीन्द्रकेष्वपनातेषु यो राशिरवशिष्यते तत्समानानि ॥ ४७५ ॥
अथ दक्षिणोत्तरेन्द्रयोरिन्द्रकश्रेणीबद्धप्रकीर्णकविभागं प्रदर्शयति;उत्तरसेढीबद्धा वायव्वीसाणकोणगपइण्णा । उत्तरइंदणिबद्धा सेसा दक्खिणदिसिंदपडिबद्धा ४७६