________________
ज्योतिर्लोकाधिकारः ।
कल्पानामष्टयुगलानि क्रमेण भवंति । एकस्यां रज्जौ नवग्रैवेयकादीनि क्रमेण भवंति ॥ ४५८॥
साम्प्रतं सौधर्मादिषु विमानसंख्यां गाथात्रयेण कथयति;बत्तीसट्ठाबीसं बारस अद्वेव होंति लक्खाणि । सोहम्मादिचउक्के लक्खचउक्कं तु बह्मदुगे॥४५९ ॥
द्वात्रिंशदष्टाविंशतिः द्वादश अष्टैव भवंति लक्षाणि । सौधर्मादिचतुष्के लक्षचतुष्कं तु ब्रह्मद्विके ॥ ४५९ ॥ बत्तीसहा । द्वात्रिंशल्लक्षाष्टाविंशतिलक्षद्वादशलक्षाष्टलक्षाण्येव यथासंख्यं सौधर्मादिचतुष्के विमानानि भवन्ति । ब्रह्मब्रह्मोत्तरे मिलित्वा लक्षचतुष्कप्रमितानि विमानानि भवन्ति ॥ ४५९ ॥ तत्तो जुम्माण तिए पण्णासं ताल छस्सहस्साणं । सत्तसयाणि य आणदकप्पचउक्केसु पिंडेण ॥ ४६० ॥ - ततो युग्मानां त्रये पंचाशत् चत्वारिंशत् षट्सहस्राणां ।
सप्तशतानि च आनतकल्पचतुष्केषु पिंडेन ॥ ४६० ॥ तत्तो जुम्मा । ततो लांतवादियुग्मत्रये यथासंख्यं पंचाशत्सहस्राणि चत्वारिंशत्सहस्राणि षट्सहस्राणि विमानानि आनतादिकल्पचतुष्क पिण्डेन सप्तशतानि भवन्ति ॥ ४६० ॥ एक्कारसत्तसमहियसयमकाणउदी णव य पंचेव । गेवेज्जाणं तित्तिसु अणुदिस्साणुत्तरे होंति ॥ ४६१ ॥ एकादशसप्तसमधिकशतं एकनवतिः नव च पंचैव ।
ग्रैवेयाणां त्रिस्त्रिषु अनुदिशानुत्तरे भवति ॥ ४६ १ ॥