________________
१९६
त्रिलोकसारे
vvvv
एक्कारसत्त । एकादशमधिकशतं सप्तसमधिकशतं एकनवतिः नव च पंचैव यथासंख्यं अधस्तनादिग्रैवेयकाणां त्रिस्त्रिषु अनुदिशायामनुत्तरे च विमानानि भवन्ति ॥ ४६१ ॥
इदानीं प्रथमादिस्वर्गेषु प्रतरसंख्याप्रतिपादनार्थमिन्द्रकाणां प्रमाण निरूपयति;
इगितीससत्त चत्तारि दोणि एकेक छक्क चदुकप्पे । तित्तिय एकेकिंदियणामा उडुआदितेवट्ठी ॥४६२॥
एकत्रिंशत्सप्त चत्वारि द्वे एकमेकं षटं चतुःकल्पे । . त्रीणि त्रीणि एकमेकं इंद्रकनामानि ऋत्वादित्रिषष्ठिः ॥ ४६२ ॥
इगितीस । सौधर्मयुग्मे एकत्रिंशदिन्द्रकाणि सनत्कुमारयुग्मे सप्तेन्द्रकाणि ब्रह्मयुग्मे चत्वारीन्द्रकाणि लांतवयुग्मे द्वीन्द्र के शुक्रयुग्मे एकमिन्द्रकं शतारयुग्मे एकमिंद्रकं आनतादिचतुर्षु कल्पेषु षडिन्द्रकाणि। अधस्तनादिषु प्रैवेयकेषु प्रत्येकं त्रीणि त्रीणीन्द्रकाणि नवानुदिशायामेकमिन्द्रकं पंचानुत्तरे वैकमिन्द्रकं । एतेषां तु विमानादीन्द्रकाणां नामानि च त्रिषष्टिर्भवन्ति ॥ ४६२॥ एतेषामिन्द्रकाणामूर्धन्तरं तन्नामावतारं चाह;एक्कक्कइंदयस्य य विच्चालमसंखजोयणपमाणं। एदाणं णामाणं बोच्छामो आणुपुवीओ॥४६३॥ एकैकमिंद्रकस्य च विचालं असंख्यातयोजनप्रमाणं । एतेषां नामानि वक्ष्यामः आनुपूर्व्या ॥ ४६३ ॥ एकेक । एकैकमिन्द्रकस्यान्तरालमसंख्यातयोजनं स्यात् । एतेषामिन्द्र-- काणां नामानि चानुपूर्व्या वक्ष्यामः ॥ ४६३ ॥