SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ज्योतिलोंकाधिकारः। शुक्रमहाशुक्रगतः शतारसहस्रारगो हि ततस्तु । आनतप्राणतारणाच्युतगा भवंति कल्पा हि ॥ ४५३ ॥ . सुक्कमहा । शुक्रमहाशुक्रावपि तथा एकः कल्पः शतारसहस्रारकावपि तथैकः कल्पः । ततस्तु आनतप्राणतारणाच्युता इति चत्वारः कल्पा भवन्ति ॥ ४५३ ॥ इदानीमिन्द्रापेक्षया कल्पसंख्यामाह;मज्झिमचउजुगलाणं पुवावरजुम्मगेसु सेसेसु । सव्वत्थ होंति इंदा इदि बारस होति कप्पा हु॥४५४॥ मध्यमचतुर्युगलानां पूर्वापरयुग्मयोः शेषेषु । सर्वत्र भवंति इंद्रा इति द्वादश भवंति कल्पा हि ॥ ४९४ ॥ मज्झिम । मध्यमचतुर्युगलानां पूर्वयुग्मयोर्ब्रह्मलान्तवयोरेकैकेन्द्रौ । अपरयुग्मयोः महाशुक्रसहस्रारयोरेकैकेन्द्रौ। शेषेष्वष्टसु कल्पेषु सर्वत्रेन्द्रा भवन्ति। इतीन्द्रापेक्षया कल्पा द्वादश भवन्ति ॥ ४५४॥ . __ अथ कल्पातीतविमाननामान्याह;हिडिममज्झिमउवरिमतित्तिय गेवेज णवअणादिसगा। पंचाणुत्तरगा विय कप्पादीदा हु अहमिंदा ॥ ४५५॥ अधस्तनमध्यमोपरिमत्रिस्त्रिकाणि ग्रैवेयाणि नव अनुदिशानि । पंचानुत्तरकाणि अपि च कल्पातीता हि अहमिंद्राः ॥ ४५५ ॥ हिहिम । अधस्तनमध्यमोपरिमत्रिस्त्रिकाणि ग्रैवेयकाणि नवानुदिशानि पंचानुत्तराणि च कल्पातीतविमानानि तेषु स्थिताः अहमिन्द्राः भवन्ति ॥ ४५५॥ १३
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy