________________
१९२
त्रिलोकसारे॥ अथ वैमानिकलोकाधिकारः ॥ ५॥
___ अथानुक्रमेणावतीर्णवैमानिकलोकं व्यावर्णयितुकामस्तावद्विमानसंख्याप्रतिपादनार्थ तेष्ववस्थितानामविनश्वराणां जिनेश्वरगृहाणां प्रमाणपूर्वकं प्रमाणमाह;चुलसीदिलक्खसत्ताणउदिसहस्से तहेव तेवीसे। सम्वे विमानसमणगजिणिंदगेहे णमंसामि ॥४५१ ॥
चतुरशीतिलक्षसप्तनवतिसहस्रान् तथैव त्रयोविंशान् । सर्वान् विमानसमानजिनेंद्रगेहान् नमस्यामि ॥ ४५१ ॥
चुलसीदि । चतुरशीतिलक्षसप्तनवातसहस्रान् तथा त्रयोविंशतिसहितान् सर्वान् विमानसमानजिनेन्द्रगेहानमस्यामि ॥ ४५१ ॥
अथैतेषां विमानानां कल्पकल्पातीतत्वेन विकल्प्य तावत्कल्पानां नामानि गाथाद्वयेनाह;सोहम्मीसाणसणक्कुमारमाहिंदगा हु कप्पा हु। बह्मबह्मत्तरगो लांतवकापिट्ठगो छट्ठो ॥ ४५२ ॥
सौधर्मेशानसनत्कुमारमाहेंद्रका हि कल्पा हि । ब्रह्मब्रह्मोत्तरको लांतवकापिष्टको षष्ठः ॥ ४५२ ॥ सोहम्मी। सौधर्मेशानसनत्कुमारमाहेन्द्रकाश्चत्वारः कल्पाः ब्रह्मब्रह्मोत्तरः कौ द्वौ मिलित्वा एकेन्द्रापेक्षया एकः कल्पः लान्तवकापिष्ठावपि तथा षष्ठकल्पः ॥ ४५२ ॥ सुक्कमहासुक्कगदो सदरसहस्सारगो हु तत्तो दु । आणदपाणदआरणअच्चुदगा होति कप्पा हु ॥४५३॥