SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः । ज्योतिष्कदेवीनामायुः स्वकस्वकदेवानामर्धे भवति । सर्वनिकृष्टसुराणां द्वात्रिंशत् भवंति देव्यः ॥ ४४९ ॥ १९१ जोइस | ज्योतिष्कदेवीनामायुः स्वकीयस्वकीयदेवानामर्द्ध भवति । अत्र सर्वनिकृष्टसुराणां द्वात्रिंशद्देव्यो भवन्ति । मध्ये यथायोग्यं देवीसंख्या अवगन्तव्याः ॥ ४४९ ॥ अथ भवनत्रये उत्पद्यमानजीवानाह; - उम्मग्गचारि सणिदाणणलादिमुदा अकामणिज्जरिणो । कुदवा सबलचरिता भवणत्तिय जंति ते जीवा ॥४५० ॥ उन्मार्गचारिणः सनिदाना: अनलादिमृता अकामनिर्जरिणः । कुतपसः शबलचारित्रा भवनत्रये यांति ते जीवाः ॥ ४१० ॥ उम्मग्गचारि । उन्मार्गचारिणः सनिदाना अनलादिमृता अकामनिर्ज. रिणः कुतपसः शंबलचारित्रा ये ते जीवा भवनत्रये यान्ति ॥ ४५० ॥ इतिश्री नेमिचंद्राचार्यविरचिते त्रिलोकसारे ज्योतिर्लोकाऽधिकारः ॥ ४॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy