________________
लोकसामान्याधिकारः।
एतेषां षण्णां यथासंख्यं दृष्टांतमुखेनोपपत्तिमाह;पत्थतुलचुलयएगप्पहुदी गुंजातुरंगमोल्लादी। . दव्वं खित्तं कालो भावो लोगुत्तरं चदुधा ॥ १०॥ प्रस्थतुलाचुलकैकप्रभृति गुंजातुरंगमूल्यादि । द्रव्यं क्षेत्रं कालो भावो लोकोत्तरं चतुर्धा ॥ १० ॥ पत्थ । प्रस्थप्रभृति तुलाप्रभृति चुलकप्रभृति एकप्रभृति गुंजादि तुरंगमूल्यादीति । इतो लोकोत्तरमानभेद उच्यते । द्रव्यं क्षेत्रं कालो भाव इति लोकोत्तरं चतुर्धा ॥ १० ॥ ___ अथ तेषां चतुर्णी यथासंख्येन जवन्योत्कृष्टप्रतीत्यर्थ गाथाचतुष्टयमाह;परमाणु सयलदव्वं एगपदेसो य सव्वमागासं । इगिसमय सव्वकालो सुहमणिगोदेसु पुण्णेसु ॥ ११ ॥
परमाणुः सकलद्रव्यं एकप्रदेशः च सर्वमाकाशम् ।। एकसमयः सर्वकालः सूक्ष्मानेगोदेषु अपूर्णेषु ॥ ११ ॥
परमाणु । परमाणुः सकलद्रव्यं एकप्रदेशः सर्वमाकाशं एकसमयः सर्वकालः सूक्ष्मनिगोदलब्ध्यपर्याप्तकेषु ॥ ११ ॥ णाणं जिणेसु य कमा अवर वरं मज्झिमं अणेयविहं । दव्वं दुविहं संखा उवमपमा उवम अट्ठविहं ॥ १२॥
ज्ञानं जिनेषु च क्रमात् अवरं वरं मध्यमं अनेकविधम् । द्रव्यं द्विविधं संख्या उपमाप्रमा उपममष्टविधम् ॥ १२ ॥ णाणं । जिनेषु च ज्ञानं कमाजघन्यमुत्कष्टं मध्यमं अनेकविधं । तत्रापि द्रव्यं द्विविधं संख्याप्रमाणमुपमाप्रमाणमिति । तत्रोपमाप्रमाणमष्टविधं । अल्पवक्तव्यमादौ वक्तव्यमिति न्यायेन यथोक्तोद्देशेन निर्देश मुक्त्वा उपमाभेद उच्यते । उपमा अष्टविधेति ॥ १२ ॥