________________
त्रिलोकसारे
अथ प्रसंगायातरज्जुप्रतीत्यर्थमाह;जगसेढिसत्तभागो रज्जू सेढीवि पल्लछेदाणं । होदि असंखेजदिमप्पमाणविंदंगुलाण हदी ॥ ७ ॥
जगच्छेणिसप्तमभागः रज्जुः श्रेणिरपि पल्यच्छेदानाम् । भवति असंख्येयप्रमाणवृंदांगुलानां हतिः ॥ ७ ॥
जग । अंकसंदृष्टिप्रदर्शनद्वारेण गाथार्थो विवियते । जमच्छ्रेण्याः १८-४२-सप्तमभागो रज्जुः । श्रेणिरपि केत्यत्रोच्यते । पल्य १६ छेदानां ४ असंख्येय भाग २ प्रमितवृंदांगुलानां परस्परा हतिः श्रेणिः ॥ ७ ॥
अथ वृंदांगुलप्रतिपत्त्यर्थमाह;पल्लछिदिमेत्तपल्लाणण्णोण्णहदीए अंगुलं सूई। तव्वग्गघणा कमसो पदरघणंगुल समक्खादो ॥ ८॥
पल्यच्छेदमात्रपल्यानामन्योन्यहत्या अंगुलं सूची । तद्वर्गघनौ क्रमशः प्रतरघनांगुले समाख्याते ॥ ८ ॥
पल्ल । पल्य १६ छेद ४ मात्रपल्यानां अन्योन्यहत्या सूच्यंगुलं ६५ तर्गघनौ प्रतर ४२ घनांगुले ४२४६५ क्रमशः समाख्याते ॥ ८॥ __ अथ मानप्रतीत्यर्थं प्रक्रियामाह;माणं दुविहं लोगिग लोगुत्तरमेत्थ लोगिगं छद्धा । माणुम्माणोमाणं गणिपडितप्पडिपमाणमिदि ॥९॥
मानं द्विविधं लौकिकं लोकोत्तरमत्र लौकिकं पोहा । मानोन्मानावमानं गणिप्रतितत्प्रतिप्रमाणमिति ॥ ९॥
माणं । मानं द्विविधं लौकिकं लोकोत्तरमिति । अत्र लौकिकं षोढा. मानोन्मानावमानगणिमानप्रतिमानतत्प्रतिमानमिति ॥ ९॥