________________
त्रिलोकसारे
स्थापयेत् । एवं दक्षिणायने कर्त्तव्यम् । एवं राहोरभिजिदादिपुनर्वस्वन्तानां भुक्तिमानीय तत्र तत्र नक्षत्रे स्थापयेत् । पुष्ये तु राहुभुक्तिं आदित्यस्यैतावद्भुक्तौ ६७ राहोर्यदेतावान्त दिनानि तदा पुष्ये आदित्यस्यैतावद्भुक्तौ ५ राहोः कियद्भुक्तिरिति सम्पात्यापवर्त्यानीय ३७६ उत्तरायणसमाप्तौ पुष्ये स्थापयेत् । प्राग्वद्दक्षिणायने कर्त्तव्यम् । एवमानीतेषु चन्द्रस्य नक्षत्रभुक्तिदिनेषु सर्वेषु समच्छेदीकृत्य मिलितेषु अयनदिनानि १३ भा भवन्ति उभयायनमेलने वर्षदिनानि २७ भा १ भवन्ति । एवमादित्यस्यायनदिनानि १८३ वर्षदिनानि च ३६६ आनेतव्यानि । एवं राहोश्चायनदिनानि १८० वर्ष ४ दिनानि च ३६० आनेतव्यानि ॥ ४०९॥
अथाधिकमासप्रकारप्रतिपादनार्थमाह;इगिमासे दिणवड्डी वस्से बारह दुवस्सगे सदले। अहिओ मासो पंचयवासप्पजुगे दुमासहिया ॥४१०॥ एकस्मिन् मासे दिनवृद्धिः वर्षे द्वादश द्विवर्षके सदले । अधिको मासः पंचवर्षात्मकयुगे द्विमासौ अधिकौ ॥ ४१० ॥ इगिमासे । एकस्मिन्मासे दिनैकवृद्धिः एकस्मिन्वर्षे द्वादशदिनवृद्धिः दलसहिते द्विवर्षे एकमासोऽधिकः पंचवर्षात्मके युगे द्वौ मासौ अधिकौ एक १ घर्षस्य द्वादश १२ दिनवृद्धौ सत्यां सदलद्विवर्षस्य ५ कियन्ति दिनानि वर्द्धन्ते इति सम्पात्यापवर्तिते लब्धदिनानि ३० । एवं युगेऽपि द्रष्टव्यम् ।
प्राक्तनगाथार्थमेव गाथाष्टकेन विवृणोति;आसाढपुण्णमीए जुगणिप्पत्ती दु सावणे किले। अमिजिमि चंदजोगे पाडिवदिवसहि पारंभो ॥४११॥ आषाढपूर्णिमायां युगनिष्पत्तिः तु श्रावणे कृष्णे । अभिजिति चंद्रयोगे प्रतिपदिवसे प्रारंभः ॥ ४११ ॥