________________
ज्योतिर्लोकाधिकारः।
१७५
गुणिते अधिकदिनानि ३ भवन्ति । एकस्मिन्नयने कथं ज्यशीतिशतदिनानीति चेत्,आदित्यस्य नक्षत्रात् पंचखण्डापसरणे एकस्मिन्मुहूर्ते सति अभिजित्खण्डा ६३० पसरणे कियन्तो मुहूर्त्ता इत्यागतान्मुहूर्तान् ६६° पुनस्त्रैराशिकेन दिनानि ६३० अध उपरि त्रिंशतापवर्त्य लब्धामिदं २१ अभिजिति संस्थाप्यं । एवं जघन्यमध्यमोत्कृष्टनक्षत्राणां श्रवणादिपुनर्वस्वंतानां त्रैराशिकविधिना मुहूर्तीन दिनानि च कृत्वा यथासंख्यं पंचदशाभः १५ त्रिंशता ३० पंचदशभि १५ श्चापवर्त्य लब्धं तत्र तत्र नक्षत्रे स्थापयेत् ॥ ४०८॥
अथ पुष्ये तु विशेषप्रतिपादनार्थमाह;सतिपंचमचउदिवसे पुस्से गमियुत्तरायणसमत्ती। सेसेदक्खिणआदीसावणपडि वदि रविस्स पढमपहे४०९ .. सत्रिपंचमचतुर्दिवसान् पुष्ये गत्वा उत्तरायणसमाप्तिः । शेषान् दक्षिणादिः श्रावणप्रतिपदि रवेः प्रथमपथे ॥ ४०९ ॥
सतिपंचम । सत्रिपंचम ६ चतुर्दिवसा ४ न् पुष्ये गत्वा उत्तरायणसमाप्तिरिति कृत्वा प्राग्वत्पुष्यनक्षत्रे दिनान्यानीय ६५ तेभ्यः समच्छेदीकृतसत्रिपंचमचतुर्दिवसान २३ अपनीय उत्तरायणसमाप्तौ दत्वा शेषेभ्यः प कोष्ठपूर्णार्थ तावदेवा २३ पनीय दक्षिणायनप्रथमकोष्ठे दत्ते सति इदमेव श्रावणमासे प्रतिपदि रवेः प्रथमपथे दक्षिणायनस्यादिः अवशिष्टशेपान १ द्वितीयकोष्ठे दद्यात् । एवमश्लेषाद्युत्तराषाढान्तानामादित्यभुक्तिमानीय तत्र तत्र नक्षत्रे संस्थापयेत् । एवमभिजितश्चन्द्रस्य भुक्तिमानीय ?" तस्यैव जघन्यमध्यमोत्कृष्टनक्षत्राणां श्रवणादिपुनर्वस्वन्तानां भुक्तिं सप्तषष्टिं सर्वत्र सप्तषष्टयापवर्त्य त्रिंशद्वारं जघन्योत्कृष्टानां पंचदशभिरपवर्त्य मध्यमानां तु त्रिंशतैवापवयं लब्धं तत्र तत्र नक्षत्रे स्थापयेत् । पुष्यस्य तु आदित्यस्यैतावद्भुक्तौ ६६ चन्द्रस्य यदेकं दिनं तदा पुष्ये आदित्यस्यैतावद्भुक्तौ १६ चन्द्रस्य कियद्भुक्तिरिति सम्पात्यापवर्त्य आगतां भुक्तिं ? पुष्ये