SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १७४ त्रिलोकसारे नक्षत्रसूरयोगजमुहूर्तराशिं द्वाभ्यां संगुण्य । एकषष्ठिहिते दिवसा भवंति नक्षत्रराहुयोगस्य ॥ ४०६ ॥ णक्खत्त । अभिजिदादिनक्षत्रसूर्ययोगजनितराशिं दि ४ मु ६ त्रिंशगुणनेन मुहूर्त कृत्वा १२६ तं राशिं द्वाभ्यां संगुण्य २५२ । एकषष्ट्या हृते सति दि ४ भा , दिवसा भवन्ति नक्षत्रराहुयोगस्य । एवमितरनक्षत्राणां कर्त्तव्यम् ॥ ४०६ ॥ अथैकस्मिन्नयने नक्षत्रभुक्तिसहितरहितदिनानि निगदति;अभिजादि तिसीदिसयं उत्तरअयणस्स होंति दिवसाणि अधिकदिणाणं तिण्णि य गद दिवसा होंति इगि अयणे॥ अभिजिदादि व्यशीतिशतं उत्तरायणस्य भवंति दिवसानि । अधिकदिनानां त्रीणि च गतदिवसानि भवंति एकस्मिन् अयने ४०७ अभिजिदादि । अभिजिदादीनां पुष्यान्तानां जघन्यमध्यमोत्कृष्टनक्षत्राणां व्यशीत्युत्तरशत १८३ मुत्तरायणस्य भवन्ति दिवसानि एभ्योऽतिरिक्तान्यधिकदिनानि ननु । त्रीणि च गतदिवसानि भवन्ति एकस्मिनयने ॥ ४०७ ॥ अथाधिकदिनानामुत्पत्तिमाह;एक्कपहलंघणं पडि जदि दिवसिगिसट्ठिभागमुवलद्धं । किं तेसीदिसदस्सिदि गुणिदेते होंति अहियदिणा४०८ एकपथलंघनं प्रति यदि दिवसैकषष्ठिभागं उपलब्धं । किं व्यशीतिशतस्येति गुणिते ते भवंति अधिकदिनानि ॥ ४०८॥ एकपह । एकपथलंघनं प्रति यदि दिवसैकषष्ठि ' भाग उपलभ्यते तदा व्यशीतिशत १८३ दिवसानां किमिति सम्पात्यैकषष्ट्या तिर्यगपवर्त्य
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy