________________
ज्योतिर्लोकाधिकारः ।
१७१
एतानि खण्डानि अभिजित्खण्ड ६३० सहितानि सर्वाणि मेलयित्वा ५४९०० चन्द्रद्वयार्थं द्विगुणीकृत्य मिलितानि समुदितानि अष्टशतं नवसहकलक्ष १०९८०० प्रमाणानि भवन्ति । एतेषु स्वकीयमुहूर्तगतिप्रमाणनभःखण्डैः हृतेषु सत्सु। कथं हरणमिति चेदुच्यते । एतावतां खण्डानां गतौ १७६८ एकस्मिन्मुहूर्त्ते इयतां खण्डानां गतौ १०९८०० कियन्तो मुहूर्त्ता इति सम्पात्य भक्ते चन्द्रस्य परिधिभ्रमणकालः मु६२ शेषं अष्टाभिरपवर्तिते तन्मुहूर्त्ताशाः । एवमादित्यनक्षत्राणामानेतव्यं प्र १८३० फ १ इ १०९८०० लब्धं मु ६० अयमादित्यस्य परिधिभ्रमणकालः । प्र १८३५ फ=मु १ इ १०९८०० लब्धं मु ५९ शे १८३५ पंचभिरपवर्तिते मुहूर्ताशाः अयं नक्षत्रस्य परिधिभ्रमणकाल: एवं सति परिधिगतमुहूर्ता भवन्ति ॥ ४०१ ॥
१८४
२३ २२१
अथ ताः स्वकीयस्वकीय मुहूर्त्तगतयः का इत्यत्राह; -
-
अट्ठट्ठी सत्तरसयमिंदू छावट्ठि पंचअहियकमं । गच्छन्ति सूरिरिक्खा णभखंडाणिगिमुहुत्तेण ॥ ४०२ ॥
अष्टषष्ठिः सप्तदशशतं इंदुः षट्षष्ठिः पंचाधिकक्रमाणि । गच्छंति सूर्यऋक्षाणि नभःखंडानि एकमुहूर्तेन ॥ ४०२ ॥
अटूडी । अष्टषष्टिः सप्तदशशतगगनखण्डानि इन्दु : १७६८ तान्येव द्विषष्टया ६२ धिकान्यादित्यः १८३० तान्येव पुनः पंचाधिकक्रमाणि नभःखण्डानि नक्षत्राणि गच्छन्ति १८३५ एकमुहूर्त्तेन ॥ ४०२ ॥
अथ चन्द्रादितारान्तानां गमनविशेषस्वरूपमाह; --
चंदो मंदो गमणे सूरो सिग्घो तदो गहा तत्तो । aat रिक्खा सिग्घा सिग्धयरा तारया तत्तो ॥ ४०३ ॥