________________
१७२
त्रिलोकसारे
चंद्रो मंदो गमने सूरः शीघ्रः ततो ग्रहाः ततः । ततः ऋक्षाणि शीघ्राणि शीघ्रतराः तारकाः ततः ॥ ४०३ ॥
चंदो मंदो । चन्द्रो मन्दो गमने ततः सूर्यः शीघ्रः ततो ग्रहाः शीघ्राः ततो नक्षत्राणि शीघ्राणि ततः शीघतरास्तारकाः ॥४०३ ॥
अथ साम्प्रतं चन्द्रादित्ययोर्नक्षत्रभुक्तिमाह;इंदुरवीदो रिक्खा सत्तट्टी पंच गगणखंडहिया। अहियहिदरिक्खखंडा रिक्खे इंदुरविअथणमुहुत्ता४०४ इंदुरवितः ऋक्षाणि सप्तषष्ठिः पंच गगनखंडाधिकानि । अधिकहितऋक्षखंडानि ऋक्षे इंदुरविअस्तमनमुहूर्ताः ॥ ४०४॥ इंदुरवी । इन्दुरविगगनखण्डेभ्यः यथाक्रम १७६८ रवि १८३० ऋक्षाणि सप्तषष्टिगगनखण्डैः ६७ पंचगगनखंडैर्वाधिकानि१८३५ एकस्यां वेलायां गमनं 'प्रारभ्य चन्द्रो नक्षत्राणि च एकस्मिन्मुहूर्ते स्वस्वगगनखण्डसमाप्तिकरणे चन्द्रो नक्षत्रात्सप्तषष्टिखण्डानि पृष्ठभागे अपसरति एतदपसरणं धृत्वा एतावदधिकखण्डा ६७ पसरणे योको मुहूर्तस्तदा एतावत् अभिजित्खण्डा ६३० पसरणे कियन्तो मुहूर्ताः स्युरिति संपातविधिना अधिकेन ६७ अभिजिदादिजघन्यमध्यमोत्कृष्टनक्षत्रखण्डेषु अभिजित: ६३० जघ १००५ म २०१० उ ३०१५ हृतेषु तत्तन्नक्षत्रे इन्दुरव्योः आसन्नमुहूर्ताः स्युः अभिजितो मु ९ मा ७ ज १५ म ३० उ ४५ जघन्यनक्षत्रे त्रिंशन्मुहूर्तानामेकस्मिन् दिने इयतां १५ मुहूर्तानां किमिति संपात्य पंचदशभिरपवर्तिते लब्धदिन ३ म दिन १ उ-न-मु-४५ एतद्दिनं कृत्वा पंचदशभिरपवर्तिते एवं ई एवमेवादित्यस्य नक्षत्राणां भुक्तिकालो ज्ञातव्यः। अभिजितः दि=४। मु ६। ज=दि ६ मु=२१ म=दि १३। मु १२। उ-दि २० मु ३ ॥४०४॥