________________
त्रिलोकसारे
शतभिषा भरणी आर्द्रा स्वातिः आश्लेषा ज्येष्ठा अवराणि वराणि । रोहिणी विशाखा पुनर्वसुः त्र्युत्तराः मध्यमा शेषाः ॥ ३९९ ॥
१७०
सदभिस । शतभिषक् शतविशाखेत्यर्थः भरणी आद्रा स्वाति: अश्लेषा ज्येष्ठा इत्यवरनक्षत्राणि ६ वराणि ३ रोहिणी विशाखा पुनर्वसु उत्तरा उत्तराफाल्गुनी उत्तराषाढा उत्तरभाद्रपदेत्यर्थः शेषाः तारा मध्यमाः ॥ ३९९॥ अथ ताः शेषाः का इत्याह; - अस्सिणिकित्तियमियसिर पुस्समहाहत्थ चित्त अणुराहा पुव्वतिय मूल सवणासधणिट्ठा रेवदी य मज्झिमया ४०० अश्विनी कृतिका मृगशीर्षा पुण्यः मघा हस्तः चित्रा अनुराधा । पूर्वत्रिका मूलं श्रवणं सघनिष्ठा रेवती च मध्यमाः ॥ ४०० ॥ अस्सिणि । अश्विनी कृत्तिका मृगशीर्षा पुष्यः मघा हस्तः चित्रा अनुराधा पूर्वत्रिका पूर्वाफाल्गुनी पूर्वाषाढा पूर्वाभाद्रपदेत्यर्थः । मूलं श्रवणं धनिष्ठा रेवतीति मध्यमास्ताराः ॥ ४०० ॥
अथोक्तानि गगनखण्डानि पिण्डीकृत्य चन्द्रादित्यनक्षत्राणां परिधिभ्रमणकालमाह;
दोचंदाणं मिलिदे अट्ठसयं णवसहस्समिगिलक्खं । सगसगमुहुत्तगदिणभखंडहिदे परिधिगमुहुत्ता ॥ ४०१ ॥
द्विचंद्रयेाः मिलिते अष्टशतं नवसहस्रं एकलक्षं । स्वस्वकमुहूर्तगतिनभःखंडहिते परिधिमुहूर्ताः ॥ ४०१ ॥
दोचंदाणं । जघन्यमध्यमात्कृष्ट नक्षत्र खण्डानि ज१००५ म २००१ उ ३०१५ तत्तन्नक्षत्रप्रमाणेन ६ । १५/६ गुणयित्वा ६०३०।३०१५० । १८०९०