________________
ज्योतिर्लोकाधिकारः : ।
मंदरगिरिमध्यात् यावत् लवणोदधिषष्ठभागस्तु । अघस्तनो अष्टादशशतांनि उपरि शतयोजनानि तापः ॥ ३९७॥
१६९
मन्दर । अभ्यन्तरवीथौ स्थितस्य सूर्यस्य जम्बूद्वीपा ५०००० द्वीप - चारक्षेत्र १८० मपनीतं चेदिदं ४९८२० मन्दरमध्यादारभ्यअभ्यन्तरवीथीपर्यन्तं उत्तरतापं विदुः । लवणोदधिं २००००० षभिर्भक्त्वा ३३३३३ शेष 1⁄2 अत्र द्वीपचारक्षेत्रे १८० मेलने ३३५१३ शे1⁄2 अभ्यन्तरवीथ्याः आरभ्य लवणसमुद्रषष्ठभागपर्यन्तं दक्षिणतापं विदुः । सूर्यबिम्बादधस्तादष्टादशशतानि १८०० योजनानि अधस्तापं विदुः । तद्विम्बस्योपरि शतयोजनानि ऊर्ध्वतापं विदुः ॥ ३९७ ॥
अथेदानीं चन्द्रादित्यग्रहाणां नक्षत्रभुक्तिं प्रतिपादयितुकामस्तावदेकैकनक्षत्रसम्बधिसी मागगन खंडमाह; -
अभिजिस्स गगणखंडा छस्सयतीसं च अवरमज्झवरे । छप्पण्णरसे छके इगिदुतिगुणपणयुतसहस्सा ॥ ३९८ ॥ अभिजितः गगनखंडानि षट्शतत्रिंशत् च अवरमध्यवराणि । षट्पंचदशे षट्टे एकद्वित्रिगुणपंचयुतसहस्राणि ॥ ३९८ ॥
अभिजिस्स । अभिजितः गगनखण्डानि षट्शतत्रिंशत् ६३० जघन्य - मधमोत्कृष्टनक्षत्रे यथाक्रमं ष ६ टू पंचदश १५ षट् ६ प्रमाणे यथासंख्यं एक द्वित्रिगुणितपंचयुतसहस्रं गगनखंडानि ज १००५ म २०१० उ ३०१५ ।। ३९८ ॥
अथ तानि जघन्यमध्यमोत्कृष्टनक्षत्राणि गाथाद्वयेनाह; -- समिस भरणी अद्दा सादि असिलेस्स जेट्टमवर वरा । रोहिणि विसा पुणव्वसु तिउत्तरा मज्झिमा सेसा ३९९