________________
ज्योतिलोकाधिकारः।
तारंतरं । तारकायाः सकाशात् तारकांतरं जघन्यं तिर्यग्रूपं क्रोशसप्तमभागः ॐ पंचाशयोजनानि मध्यमांतर योजनसहस्रमुत्कृष्टांत्वरं भवति ॥ ३३५ ॥
इदानीं ज्योतिर्विमानस्वरूपं निरूपयति;उत्ताणट्ठियगोलकदलसरिसा सव्वजोइसविमाणा । उरि सुरनगराणि य जिणभवणजुदाणि रम्माणि ३३६
उत्तानस्थितगोलकदलसदृशाः सर्वज्योतिष्कविमानाः । उपरि सुरनगराणि च जिनभवनयुतानि रम्याणि ॥ ३३६ ॥ उत्ताणं । उपरि 'तेषामुपरि' इत्यर्थः । शेषश्च्छायामात्रमेवार्थः ॥३३६॥ अथ तेषां विमानव्यासं बाहल्यं च गाथाद्वयेनाह;जोयणमेक्कटिकए छप्पण्णडदालचंदरविवासं । सुक्कगुरिदरतियाणं कोसं किंचणकोस कोसद्धं ॥३३७॥ योजनं एकषष्ठिकृते षट्पंचाशदष्टचत्वारिंशत् चंद्ररविन्यासी । शुक्रगुर्वितरत्रयाणां क्रोशः किंचिदूनकोशः क्रोशार्धम् ॥ ३३७ ।। जोयण । एकयोजने एकषष्ठिभागे कृते तत्र षट्पंचाशद्भागा अष्टचत्वारिंशद्भागाश्च क्रमेण चंद्ररविविमानव्यासौ भवतः । शुक्रगुरुरितरत्रयाणां बुधमंगलशनीनां विमानव्यासः कोशः किंचिन्न्पूनकोशः कोशाधू च स्यात् ॥ ३३७ ॥ कोसस्स तुरियमवरं तुरियहियकमेण जाव कोसोत्ति । ताराणं रिक्खाणं कोसं बहलं तु बासद्धं ॥ ३३८॥
कोशस्य तुरीयमवरं तुर्याधिककमेण यावत् कोश इति । ताराणां ऋक्षाणां क्रोशं बाहल्यं तु व्यासार्धम् ॥ ३३८ ।।