________________
त्रिलोकसारे
जलचरजीवा लवणे कालेऽतिमस्वयंभुरमणे च । कर्ममहीप्रतिबद्धे न हि शेषे जलचरा जीवा ॥ ३२० ॥ जलयर | जलचरजीवा लवणसमुद्रे कालोदकसमुद्रे अंतिमस्वयंभूरमसमुद्रे च कर्ममहीप्रतिबद्धत्वात् संति । शेषेषु न हि जलचरा जीवाः ३२० अथ स्थान निर्देशेन समुद्रत्रयावस्थितमत्स्यानां देहावगाहनमाह; - लवणदुर्गतसमुद्दे णदीमुहुवहिम्हि दीह णव दुगुणं । दुगुणं पणसय दुगुणं मच्छे वासुदयमद्भकमं ॥ ३२९ ॥
१३०
लवणद्विकांत्यसमुद्रे नदीमुखोदधौ दैर्ध्य नव द्विगुणं । द्विगुणं पंचशतं द्विगुणं मत्स्ये व्यासोदयो अर्धक्रमौ ॥ ३२१ ॥ लवण | लवणद्विके लवणकालोदकयो: अंत्यसमुद्रे च नदीप्रवेशमुखे उदधौ च समुद्रमध्ये यथासंख्यं लवणोदके मत्स्यद्वैर्व्य नव ९ तद्विगुणं १८ कालोद के तय द्विगुणं १८ । ३६ स्वयंभूरमणे पंचशतं ५०० तद्विगुणं १००० मत्स्यव्यासोइयौ तत्तदधर्धक्रमौ भवतः ॥ ३२९ ॥
सांप्रतं मनुष्यक्षेत्रेतरविभागस्य कर्मभोगभूमिविभागस्य च सीमानमान - यतोः पर्वतयॊः स्वरूपं निरूपयन् तद्विभागमेव समर्थयितुं गाथात्रयमाह; - पुक्खरसयंभुरमणाणद्धे उत्तरस्यपहा सेला । कुंडलरुचगद्धं वा सर्व्वं पुवं परिक्खित्ता ।। ३२२ ॥ पुष्कर स्वयंमुरमणयोरर्थे उत्तरस्वयंप्रभौ शैलौ ।
कुंडलचका वा सर्वे पूर्व परिक्षिप्ताः ॥ ३२२ ॥
पुक्खर । पुष्करार्धे स्वयंभूरमणार्थे च यथासंख्यं मानुषोत्तरस्वयंप्रभौ शैलौ भवतः कुंडलरुचकार्धमिव कुंडलगिरि: रुचकार्धे रुचकगिरिर्यथेत्यर्थः । एते सर्वे पर्वताः पूर्वं स्वस्वाभ्यंतरद्वीपसमुद्रान् परिक्षिप्य तिष्ठति ॥ ३२२ ॥