________________
ज्योतिलोंकाधिकारः।।
१२५
द्राणां उभयदिक्संजनितवलयव्यासयुतेः सकाशात् त्रिलक्षाधिको यतस्ततः त्रिलोनःउभयदिक्संजनितो विवक्षितवलयव्यासः अम्यंतरसूचीप्रमाणमित्य- . भिप्रायः। विवक्षितवलयव्यासं त्रिसंगुणं कृत्वा तत्र लक्षत्रये शोधिते मध्यमसूचीप्रमाणं भवति । तथाहि । विवक्षितस्य द्वीपस्य समुद्रस्य वा वलयव्यासो द्विगुणितस्त्रिलक्षोनश्चेत् तदा तदभ्यंतरसूचीप्रमाणं भवति यतस्ततः कारणात् तस्मिन्नभ्यंतरसूचीप्रमाणे विवक्षितवलयव्यासमध्यात्तदर्धस्य दिग्द्वयगतस्य विवक्षितवलयव्यासप्रमाणस्याभ्यधिकत्वात् मध्यमसूचीप्रमाणं त्रिगुणितत्रिलूक्षोनविवक्षितवलयव्यासप्रमितमिति भावः । विवक्षितवलयव्यासं चतुःसंगुणं कृत्वा तत्र लक्षत्रये शोधिते बाह्यसूचीप्रमाणं भवति । तथाहि । यतो द्विगुणितत्रिलक्षोनविवक्षितवलयव्यासप्रमिते अभ्यंतरसूचीप्रमाणे विवक्षितवलयव्यासस्य दिग्द्वयगतस्य प्रक्षेपणात् बाह्यसूचीप्रमाणमुत्पद्यते ततः कारणात् चतुर्गुणितत्रिलक्षोनविवक्षितवलयव्यासप्रमिता बाह्यसूचीत्याचार्या भिप्रायः ॥ ३१० ॥
अथोक्तसूचीव्यासमाश्रित्य तत्तत्क्षेत्रबादरमूक्ष्मपरिधिं तत्तद्वादरसूक्ष्मक्षेत्रफलं चानयति;-- त्रिगुणियवासं परिही दहगुणवित्थारवग्गमूलं च । परिहिहदवासतुरियं बादर सुहुमं च खेत्तफलं ॥३११॥ त्रिगुणितव्यासः परिधिः दशगुणविस्तारवर्गमूले च । परिधिहतव्यासतुरीयं बादरं सूक्ष्मं च क्षेत्रफलम् ॥ ३११ ॥ तिगुणिय । त्रिगुणितव्यासो बादरपरिधिः ३ ल. दशगुणविस्तारवर्गः १ल १ ल १० तस्मिन् मूले ग्रहीते सूक्ष्मपरिधिः योजन ३१६२२७ तच्छेषयोजनभाग ४८४४७१ चतुर्भिः संगुण्य कोशं कृत्वा १९३७८८४ पूर्वभागहारेण ६३२४५४ भागे कृते को ३ तत्कोशशेष ४०५२२ सहस्रद्वयेन २००० संगुण्य दंडान् विधाय ८१०४४००० प्राक्तनभागहारेण
मूल च ।