________________
१२४
त्रिलोकसारे
तत्र प्रथमराशौ शून्यं विशोधयेत् द्वितीयराशौ लक्षवयं विशोधयेत् । एवं कृते सति वलयव्यासः ८ ल. सूचीव्यासश्च जायते २९ ल. । अत्र वलयव्यासानयने वासना । तद्यथा । जंबूद्वीपव्यासात् १ ल. अस्माल्लवणसमुद्रादिव्यासाः द्विगुणद्विगुणप्रमाणा भवंति इति हेतोः रूपोनगच्छमात्राद्विकैजबूद्वीपव्यासे गुणिते तत्र तत्रेष्टस्थाने वलयव्यासो भवति । इदं मनसि कृत्य " रूऊणपदमिददुगसंवग्गे” इत्युक्तं । अथ सूचीव्यासानयने वासना । इष्टस्य द्वीपस्य समुद्रस्य वा वलयव्यासं उभयदिग्गतमेलनात् द्विगुणं स्थापयित्वा १६ ल. तथा ततोर्वाचीनानां द्वीपसमुद्राणां वलयव्यासं द्विगुणं द्विगुणं स्थापयेत् ८ ल. । ४ ल. । जंबूद्वीपस्य दिग्द्वयाभावादात्मप्रमाणमेव १ ल. स्थापयेत् । ततः व्यासानां न्यासः । १६ ल. ८. ल. ४ ल. १ ल. गुणसंकलनार्थः । अत्र द्वितीयस्थाने शून्ये लक्षद्वयमणं प्रक्षिपेत् । एवंकृते रूपाधिकगच्छोत्पत्तिः भवति । इदं संप्रधार्य "रूवाहियपददुर्ग संवग्गे" इत्युक्तं । अत्र “ पदमेत्ते गुणयारे" इत्यनेन गुणसंकलनसूत्रेण रूपाधिकपदमात्रद्विकसंवर्गेणोत्पन्नराशावेकरूपं प्राक् प्रक्षिप्तऋणद्वयं चापनयेत् । इदमेवावधार्य " तिलक्खविहीण" इत्युक्तं । एवं कृते इष्टस्थाने सूचीव्यासप्रमाणमुत्पद्यते ॥ ३०९॥
तथाभ्यंतरमध्यमबाह्यसूच्यानयने इदं करणसूत्रम्;लवणादीणं वासं दुगतिगचदुसंगुणं तिलक्खूणं । आदिममज्झिमबाहिरसूइत्ति भणंति आइरिया ॥३१०॥
लवणादीनां व्यासं द्विकत्रिकचतुःसंगुणं त्रिलक्षोनम् ।
आदिममध्यमबाह्यसूची इति भणंति आचार्याः ॥ ३१० ॥ लवणा । लवणसमुद्रादीनां मध्ये इष्टस्य द्वीपस्य समुद्रस्य वा वलयव्यासं द्विसंगुणं कृत्वा तत्र लक्षत्रये शोधिते अभ्यतरसूचीप्रमाणं भवति । तथाहि । विवक्षितवलयव्यास उभयदिक्संजनितः अर्वाचीनानां द्वीपसमु