________________
११८
त्रिलोकसारे
दस । दशवर्षसहस्रादारभ्य दशसहस्रोत्तरवृद्धिक्रमणाशीतिसहस्रपर्यंत, ततश्चतुरशीतिसहस्राणि पल्याष्टमभागं पल्यचतुर्थाशं पल्यार्धमायुष्यं क्रमशः ॥ २९३ ॥
अथ व्यंतराणां निलयभेदमाह;वितरणिलयतियाणि य भवणपुरावासभवणणामाणि । दीवसमुद्दे दहगिरितरुम्हि चित्तावणिम्हि कमे॥२९४॥
व्यंतरनिलयत्रयाणि च भवनपुरावासभवननामानि ।
द्वीपसमुद्रे द्रहगिरितरौ चित्रावन्यां क्रमेण ॥ २९४ ॥ वितर । व्यंतराणां निलयत्रयाणि च भवनपुरं आवासं भवनमिति नामानि । इह कुत्र कुत्रेति चेत् । द्वीपसमुद्रे ह्रदगिरितरौ चित्रावन्यां च क्रमेण भवंति ॥ २९४ ॥
अथ निलयत्रयं विवृणोति;उगया आवासा अधोगया विंतराण मवणाणि । भवणपुराणि य मज्झिमभागगया इदि तियं णिलयं२९५ ऊर्ध्वगताः आवासा अधोगता व्यंतराणां भवनानि । भवनपुराणि च मध्यमभागगतानीति त्रयं निलयम् ॥ २९५ ॥ उड्ढगया। छायामात्रमेवार्थः ॥ २९५ ॥
अथ सर्वेषां व्यतराणां यथासंभवं निवासप्रदेशमुपदिशति;--- चित्तवइरादु जावय मेरुदयं तिरियलोयवित्था । मोम्मा हवंति भवणे भवणपुरावासगे जोग्गे ॥ २९६॥