________________
. व्यंतरलोकाधिकारः।
११९
nnnnnnnnnnnnn
चित्रावज्रातः यावत् मेरूदयं तिर्यग्लोकविस्तारं ।
भौमा भवंति भवने भवनपुरावासके योग्यं ॥ २९६ ॥ चित्त । चित्रावज्रामध्यादारभ्य यावन्मेरूदयं यावत्तिर्यग्लोकविस्तार तावति क्षेत्रे भौमा भवति स्वस्वयोग्यभवने भवनपुरे आवासे च ॥ २९६ ॥
अथ निलयसंक्रममावेदयति;- .. भवणं भवणपुराणि य भवणपुरावासयाणि केसिपि । मवणामरेसु असुरे विहाय केसिं तियं णिलयं ॥२९७॥
भवनं भवनपुरे च भवनपुरावासकानि केषांचित् ।
भवनामरेषु असुरान् विहाय केषां त्रयं निलयम् ॥ २९७ ॥ भवणं । केषांचित् भवनमेव, केषांचिद्भवनपुरे च भवतः, केषांचिद्भव नभवनपुरावासकानि च भवति । भवनामरेषु असुरान् विहाय केषांचित् त्रयं निलयम् ॥ २९७ ॥
अथ निलयत्रयाणां व्यासादिकं गाथात्रयेण कथयति;-- जेद्वावरभवणाणं बारसहस्सं तु सुद्ध पणुवीसं । बहलं तिसय तिपादं बहलतिभागुदयकूडं च ॥२९८॥
ज्येष्ठावरभवनयोः द्वादशसहस्रं तु शुद्धपंचविंशतिः ।
बाहल्यं त्रिशतं त्रिपादं बाहल्यत्रिभागोदयकूटं च ॥२९८ ।। जेठा । जेष्ठजघन्यभवनयोर्विस्तारौ द्वादशसहस्रयोजनानि शुद्धा पंचविंशतिः, तयोर्बाहल्यं त्रिशतयोजनानि त्रिपादयोजनं तयोमध्ये तद्वाहल्यत्रिभागोदयकूटं चास्ति ॥ २९८ ॥ जेट्ठभवणाण परिदो वेदी जोयणदलुच्छिया होदि । अव राणं भवणाणं दंडाणं पण्णुवीसुदया ॥ २९९ ॥