________________
व्यंतरलोकाधिकारः।
भूदाण । भूतानां खरभागे राक्षसानां पंकभागे चतुर्दश षोडशसहस्रभवनानि शेषाणां वानव्यंतरदेवानां उपरि मध्यलोके निलयानि संति ॥२९॥
अथ नीचोपपादादिव्यंतरविशेषान् गाथाद्वयेनाह;हत्थपमाणे णिच्चुववादा दिगुवासि अंतरणिवासी। कुंभंडा उप्पण्णाणुप्पण्ण पमाणया गंधा ॥ २९१ ॥
हस्तप्रमाणे नीचोपपादाः दिग्वासिनः अंतरनिवासिनः । कूष्मांडाः उत्पन्ना अनुत्पन्नाः प्रमाणका गंधाः ॥ २९१ ॥ हत्थ । छायामात्रमेवार्थः ॥ २९१ ॥ महगंध भुजग पीदिक आगासुववण्णगा य उवरुवरि। तिसु दसहत्थसहस्सं वीससहस्संतरं सेसे ॥ २९२॥
महागंधा भुजगाः प्रीतिका आकाशोत्पन्नाश्च उपर्युपरि । त्रिषु दशहस्तसहस्राणि विंशतिसहस्रांतरं शेषे ॥ २९२ ।।
मह । महागंधा भुजगाः प्रीतिका आकाशोत्पन्नाश्च १२ एते सर्वे भूतविशेषा चित्राभूमित उपर्युपरि । त्रिषु दशहस्तसहस्राणि अंतरं शेषे उत्पन्नादौ विंशतिहस्तसहस्राणि अंतरं ॥ २९२ ॥
अथ तेषां नीचोपपादादीनां क्रमेणायुष्यमाह;दसवरिससहस्सादो सीदी चुलसीदिकं सहस्सं तु। . पल्लट्ठमं तु पादं पल्लद्धं आउगं कमसो ॥ २९३ ॥
दशवर्षसहस्रात् अशीतिः चतुरशीतिकं सहस्रं तु । पल्याष्टमं तु पादं पल्यार्धमायुष्यं क्रमशः ॥ २९३ ।।