________________
त्रिलोकसारे
द्विवारपर्यंतं अमनस्कः प्रथमनरकं गत्वा ततो निर्गत्य संज्ञि भूत्वा मृत्वा पुनरत्रैवासंज्ञि संभूय मृत्वा प्रथमनरकं गच्छति । इदमेकवारं । एवमसंज्ञिनोष्टवारं निरंतरं योजयेत् । निरंतरासंभवेन एकमंतरं गृह्णीयात्, नैवं सरीसृपादिषु । मत्स्यः सप्तमनरकं गत्वा ततः प्रच्युत्य तिर्यग्जीवो भूत्वा मृत्वा मत्स्यः संभूय मृत्वा सप्तमनरकं गच्छति । नरस्यैवं निरंतरं द्विवारं योजयेत् ॥ २०५॥ __ अथ प्रथमादिपृथिव्या उत्कृष्टेन जननमरणयोरंतरमाह;चउवीसमुहुत्तं पुण सत्ताहं पक्खमेक्कमासं च । दुगचदुछम्मासं च य जम्मणमरणंतरं णिरये ॥२०६ ॥
चतुर्विशतिर्मुहूर्ताः पुनः सप्ताहानि पक्षः एकमासश्च । द्विकचतुःषण्मासाश्च च जननमरणांतरं निरये ॥ २०६ ॥ चउवीस । यथासंख्यं इति शेषः । छायामात्रमेवार्थः ॥ २०६ ॥ तेषां दुःखप्रागल्भ्यमाह;अच्छिणिमीलणमेत्तं णत्थि सुहं दुक्खमेव अणुबद्धं । णिरए णेरइयाणं अहोणिसं पञ्चमाणाणं ॥ २०७॥
अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेव अनुबद्धम् । निरये नैरयिकाणां अहर्निशं पच्यमानानाम् ॥ २०७ ॥ अच्छि । छायामात्रमेवार्थः ॥ २०७ ॥ इति नरकस्वरूपनिरूपणं । इति श्रीनेमिचंद्राचार्यविरचिते त्रिलोकसारे
लोकसामान्याधिकारः ॥ १ ॥