________________
लोकसामान्याधिकारः।
अथ नरकान्निसृतस्य जीवस्योत्पत्तिनियममाह;णिरयादो णिस्सरिदो णरतिरिए कम्मसण्णिपज्जत्ते । गब्भभवे उप्पज्जदि सत्तमपुढवीदु तिरिए व ॥ २०३ ॥
निरयान्निसृतः नरतिरश्चोः कर्मसंज्ञिपर्याप्ते । गर्भभवे उत्पद्यते सप्तमपृथिव्यास्तु तिरश्चि एव ॥ २०३ ॥ णिरया । निरयान्निसृतः नरतिरश्च्योर्गत्योः कर्मभूमौ संज्ञिनि पर्याप्ते गर्भभवे उत्पद्यते । सप्तमपृथिव्यास्तु निर्गतस्तादृग्विधतिरश्चां गतौ उत्पद्यते ॥ २०३॥
अथ णरतिरिए इति नियमे तत्रापि किं सर्वत्रेत्याशंकायामाह;णिरयचरोणत्थि हरी बलचक्की तुरियपहुदिणिस्सरिदो। तित्थचरमंगसंजद मिस्सतियं णत्थि णियमेण ॥२०४॥ निरयचरो नास्ति हरिः बलचक्रिणौ तुरीयप्रभृतिनिःसृतः । तीर्थचरमांगसंयताः मिश्रत्रयं नास्ति नियमेन ॥ २०४ ॥ णिर । नरकचरो नास्ति हरिः बलचक्रिणौ तुर्यप्रभृतिनिःसृतः यथासंख्यं तीर्थकरचरमांगसंयता मिश्रत्रया मिश्रासंयतदेशसंयता न संति नियमेन । असंयतत्वस्यनिषिद्धत्वादर्थात्सासादनत्वस्याप्यभाव एव ॥२०४॥
अथ नरकं गच्छतां जीवानां पृथ्वी प्रति नियममाह;अमणसरिसपविहंगम फणिसिंहित्थीण मच्छमणुवाणं । पढमादिसु उप्पत्ती अडवारादो दुदोण्णिवारोत्ति२०५
अमनस्कसरीसृपविहंगमफणिसिंहस्त्रीणां मत्स्यमनुष्याणाम् । प्रथमादिषु उत्पत्तिः अष्टवारतस्तु द्विवार इति ॥ २०५ ॥
अमण । अमनस्कसरीसृपविहंगमफणिसिंहस्त्रीणां मत्स्यमनुष्याणां प्रथमादिषु यथासंख्यमुत्पत्तिः । निरंतरं कथमिति चेत्, अष्टवारतः आरभ्य