________________
भवनाधिकारः ।
भवनाधिकारः ॥ २ ॥
८९
अथ लोकस्य सामान्यवर्णनां कृत्वा “भवणव्वेंतर " इत्यादिगाथासूचितपंचाधिकाराणां मध्ये तथैव भवनाधिकारं प्रक्रममाणस्तदधिष्ठानभूतां रत्नप्रभां तत्सहचरितां शर्कराप्रभादिभूमिं तद्गतनरकप्रस्तरान् तद्गतनारकायुरादिकं च प्रासंगिकं सर्वे व्याख्याय प्रकृतं भवनाधिकारं प्रवक्तुकामस्तदादौ भवन लोक चैत्यालयान् वंदमान इदं मंगलमाह; - भवणेसु सत्तकोडी बाबत्तरिलक्ख होंति जिणगेहा । भवणामरिंदमहिया भवणसमा ताणिं वंदामि ॥ २०८ ॥ भवनेषु सप्तकोट्यः द्वासप्ततिलक्षाणि भवंति जिनगेहानि । भवनामरेंद्रमहितानि भवनसमानि तानि वंदे ॥ २०८ ॥ भवणे । भवनेषु सप्तकोट्यः द्वासप्ततिलक्षाणि भवंति जिनगेहानि । भवनामरेंद्रमहितानि तेषां भवनसमानानि तानि वंदे ॥ २०८ ॥
अथ भवनवासिनां कुलभेदं तेषामिंद्रनामानि च गाथात्रयेणाह; — असुराणामसुवण्णादीवोदहिविज्जुथणिददिसअग्गी । वादकुमारा पढमे चमरो वइरोइणो इंदो ॥ २०९ ॥
असुरो नागसुपर्णौ द्वीपोदधिविद्युत्स्तनितदिगग्नयः । वादकुमारः प्रथमे चमरो वैरोचन इंद्रः ॥ २०९ ॥ असुरा । असुर : नागसुवर्णौ द्वीपोदधिविद्युत्स्तनितदिगग्नयः वातकुमारः । कुमारशब्दः प्रत्येकमभिसंबध्यते । प्रथमे कुले चमरो वैरोचनश्चेति विंद्र ॥ २०९ ॥