________________
म्यायप्रकाशस
ज्ञानात्मनोर्भेदाभेदः }
:२३: ज्ञानानां स्मरणानुपपत्तिः, अन्यदृष्टस्यान्येनास्मरणात् , न च नानात्वेऽपि ज्ञानानां कार्यकारणभावेन स्मरणं युज्यत इति वाच्यम् , उपाध्यायानुभूते शिष्यस्य स्मरणप्रसङ्गात् , तज्ज्ञानानां कार्यकारणभावाविशेषात् , न च शरीरभेदाग्रहोऽपि नियामक इति वाच्यम् , एतज्जन्मनि जातिस्मरणेन प्राग्जन्मानुभूतानां स्मरणासंभवात् , प्राग्भवीयस्वज्ञानानां सर्वज्ञेनाप्रतिसंधानापत्तेश्च । कार्यकारणभावमात्रस्य स्मृतिहेतुत्वासंभवाच्च । कृतहान्यकृताभ्यागमप्रस 5 गाच्च, येन हि ज्ञानेन शुभाशुभं कर्माचरितं न तेन फलमुपभुज्यते येन तु न कृतं तेनोपभुज्यते चेति। शुभाशुभकर्मप्रवृत्त्यप्रवृत्तिप्रसङ्गेन पर लोकाद्यनुष्ठानासंभवाञ्च, न चैकज्ञानस्य कर्तृत्वभोक्तृत्वाभावेऽपि तत्सन्तानस्य स्थिरैकरूपस्य ते भविष्यत एवेति वाच्यम् , सन्तानस्य विज्ञानानतिरेकात् , व्यतिरिक्तत्वेऽप्यचेतनत्वात् , व्यतिरिक्तचेतनत्वे तु जीवस्यैव नामान्तरेणाभ्युपगमप्रसङ्गात् , न च वासनासहकृतं ज्ञानमेव कर्तृ स्मर्तृ भोक्तृ च भवतीति किं तदति- 10 रिक्तसुखदुःखफलभोक्तृकल्पनयेति वाच्यम् , वासनाया अक्षणिकाया ज्ञानातिरिक्ताया त्वयानभ्युपगमात् , ज्ञानात् सुखदुःखयोरपि कारणस्नरूपफलभेदेनाभेदासम्भवाच्च । न खलु वनितारूपादिज्ञानोत्पत्तौ या सामग्री वनितादिरूपा सैव सुखदुःखयोरपि, किन्तु रागादिवासनाविशेषोऽपीति कारणभेदः, स्वपरप्रकाशकं ज्ञानं, अनुकूलप्रतिकूलवेदनीये च सुखदुःखे इति स्वरूपभेदः, प्रवृत्तिनिवृत्ती च ज्ञानस्य फलं, तृष्णावैमुख्यादिजननं सुखदुःखयोरिति फलभेदः। 15 तस्माज्ज्ञानभिन्नस्सुखदुःखादिफलभोक्ताऽतिरिक्त आत्मा सिद्ध इति ॥ ननु बुद्धिर्नात्मस्वरूपभूता तद्विरुद्धधर्माधिकरणत्वाद् घटपटादिवत् , न चासिद्धो हेतुर्बुद्धेरुत्पादविनाशधर्मकत्वात् , आत्मनश्चानुत्पादविनाशधर्मकत्वादिति चेन्न, विरुद्धधर्माधिकरणत्वेऽपि सर्वथा भेदासिद्धेः मेचकज्ञानवत् , तद्धि एकं, युगपदनेकपदार्थग्राहिशक्त्यात्मकं चातो विरुद्धधर्माध्यासः । न चानेकत्वधर्माधारा शक्तिरन्या, एकत्वधर्माधारञ्च तज्ज्ञानमन्यदिति वाच्यम् , अनेका शक्तिस्तस्येति 20 व्यपदेशासम्भवात् , ततो भेदादर्थान्तरवत् । न च सम्बन्धाद्भवतीति वक्तुं शक्यं, अनेकया शक्त्या सम्बध्यमानस्यानेकरूपत्वापत्तेः । न चैकयैव शक्त्याऽनेकमर्थं गृह्णातीति वक्तुं शक्यं सवार्थग्रहणप्रसङ्गात् , तस्मात्तयोः कथश्चिद्भिन्नाभिन्नत्वेन चेतनास्वरूपत्वं युक्तम् , सा च प्रतिजीवं तारतम्यदर्शनाचेतनात्वेनैकापि पर्यायाद्भिन्ना ततश्चात्मापि द्रव्यत एकोऽपि पर्यायभेदाद् भिन्न इति विभावनीयम् । तच्च चैतन्यमेकरूपमपि कर्ममलदिग्धमनेकावस्थान्तरावस्कन्दि भवति, 25 एतेनं यद्यात्मा ज्ञानरूपस्तदा सर्वदा विषयदर्शी भवेत् , जानानं हि जीवं ज्ञानस्वरूपमिति
१. एकसन्तानिकत्वेन स्मरणं सम्भवतीत्याशंकायान्त्वाह कार्येति, एकसन्तानिकत्वस्यापि हेतुत्वादिति भावः । २. अस्तूभयं हेतुरित्याशंकायां दोषान्तरमाह कृतेति, इष्टापत्ती बाधकमाह शुभेति ॥ ३. तथा च न स्थिरैकरूपत्वमत एव न व्यतिरिक्तत्वमिति भावः ॥ ४. उक्तन वक्ष्यमाणेन च कारणेनेत्यर्थः ।