________________
:२२: तत्त्वन्यायविभाकरे
[ द्वितीयकिरणे म्प्रत्ययग्राह्यत्वादात्मा प्रत्यक्ष एव । तदपलापेऽश्रावणः शब्द इतिवत्प्रत्यक्षविरुद्धः पक्षाभासः स्यात् । यथा च रूपादिगुणप्रत्यक्षाद् गुणी घटः प्रत्यक्षः तथा संशयस्मृतिजिज्ञासादिज्ञानविशेषाणां स्वसंवेदनप्रत्यक्षसिद्धत्वाद्गुणी जीवोऽपि प्रत्यक्षसिद्ध एव । तथेन्द्रियमपि न विज्ञात, तदुपरमेऽपि तदुपलब्धार्थानुस्मरणात् । अतः प्रत्यक्षोऽयमात्मा स्वदेहे । परदेहे पुन5 रिष्टानिष्टप्रवृत्तिनिवृत्तिदर्शनात्सात्मकत्वमनुमेयम् । परशरीरं सात्मकं, इष्टानिष्टप्रवृत्तिनिवृत्ति
दर्शनात्स्वशरीरवत् । तथाऽस्ति देहस्य विधाता, आदिमत्प्रतिनियताकारत्वात् घटवद्, यत्पुनरकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति यथाऽभ्रं । मेर्वादौ व्यभिचारवारणायादिमदिति
विशेषणम् । तथा इन्द्रियं साधिष्ठातृकं, करणत्वाद्दण्डादिवत् , देहादयस्सभोक्तका भोग्यत्वात् • वस्त्रादिवदित्यनुमानानि साधकानि बोध्यानि । न च विधात्रादिसाधकहेतूनां साध्यविरुद्ध10 साधकत्वं, घटादिकर्तृणां मूर्तिमत्त्वात्संघातरूपत्वादनित्यस्वभावत्वाच्च , सिषाधयिषितश्चैतद्विपरीतो जीव इति वाच्यम् , संसारिणो जीवस्यैव साधयितुमिष्टत्वेनादोषत्वात् , स हि अष्टविधकर्मपुद्गलसंघातोपगूढत्वात्सशरीरत्वाच्च कथंचिन्मूर्त्तत्वादिधर्मयुक्त एवेति दिक् ॥ नन्वस्तु जीवः प्रत्यक्षसिद्धस्तथापि चेतनालक्षणो जीव इति लक्षणं न सम्भवति, तथा सति हि चेतनास्वरूपं
जीव इत्युक्तं स्यात् तच्च न संभवति चेतनाया गुणत्वाज्जीवस्य गुणित्वाच्च स्वरूपभेदात् तयोर्भेदे 15 तु जीवस्यैव चेतना गुणो न घटादेरित्यवधारणं न स्यात् , तयोश्चाभेदे य एव जीवस्सैव चेतना, यैव
चेतना स एव जीव इति भेदनिबन्धनलक्ष्यलक्षणभावो न भवेदिति चेन्न तयोः कथञ्चिद्भिन्नाभिन्नत्वेनोभयोपपत्तेः। ननु तथापि कथञ्चिद्भदेन चैतन्याश्रयो जीवो वर्त्तत इति न सङ्गच्छते सर्वभावानां क्षणिकत्वेन नित्यस्य चैतन्याश्रयस्यासिद्धेः। यद्धि सत् तत्क्षणिकं यथा घटः
संश्च विवादाध्यासित इति, अत्र सत्त्वमर्थक्रियाकारित्वं नहि संश्चार्थो न चार्थक्रियाकारीति 20 संभवति, तथा च ज्ञानान्येव सन्तन्यमानानि क्षणिकानि सन्ति न ततोऽन्यो नित्यस्तदाश्रयो
जीवो नाम कश्चिदिति चेन्न घटादीनां कालान्तरस्थायित्वेन क्षणिकत्वस्यासिद्ध्या सत्त्वस्य क्षणिकत्वेन व्याप्त्यसिद्धेः, न च घटादौ सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासान्न कालान्तरावस्थायित्वं, अन्यथा कालान्तरभाविजलाहरणादिकमिदानीमपि कुर्यान्न करोत्यतोऽसमर्थत्वेन
पूर्वोत्तरकालयोनैको घट इति क्षणिकत्वं सिद्धमेवेति वाच्यम् , सामर्थ्यासामर्थ्यलक्षणविरुद्धध25 माध्यासासिद्धेः । इदानीं जलाहरणं कुर्वतो घटस्य कालान्तरीयजलाहरणं प्रत्यपि सामर्थ्यात्। " न च सति सामर्थ्य कार्यमवश्यं करणीयमित्यस्ति नियमो सहकारिलाभालाभप्रयुक्तत्वात् करणाकरणयोः । तस्मान्न क्षणिकत्वव्याप्तं सत्त्वं, किश्च नित्यात्मानभ्युपगमे क्षणिकत्वेन
१. आत्मा न प्रत्यक्ष इत्यत्रेति भावः ॥ २. जोवोऽस्ति तद्गुणप्रत्यक्षत्वाद्धटवदिति प्रयोगोऽपि बोभ्यः ।। ३. अत एव च विरुद्धत्वम् । तत्र हेतुमाह घटादीति ॥