________________
निर्जराविभागः ] न्यायप्रकाशतमलङ्कृते ।
: १९: इदानी संवरभेदानाहपश्चसमितित्रिगुप्तिद्वाविंशतिपरीषहदशयतिधर्मद्वादशभावना
__ पञ्चचारित्रभेदात्संवरस्सप्तपञ्चाशद्विधः । पश्चेति । ईर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गरूपाः पञ्चसमितयः। कायवाङ्मनोनिग्रहात्मिकात्रिगुप्तयः । क्षुत्पिपासाशीतोष्णदंशावस्त्रारतिवनिताचर्यानषेधिकशय्याऽऽक्रोशवधयाच- 5 नाऽलाभरोगतृणस्पर्शमलसत्कारप्रज्ञाऽज्ञानसम्यक्त्वरूपा द्वाविंशतिपरीषहाः । क्षान्तिमार्दवाजवनिर्लोभतातपःसंयमसत्यशौचाकिञ्चन्यब्रह्मचर्यरूपा दश यतिधर्माः । अनित्याशरणसंसारैकत्वान्यत्वाशुचित्वाश्रवसंवरनिर्जरालोकस्वभावबोधिदुर्लभधर्मस्वाख्यातरूपा द्वादश भावनाः। सामायिकछेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातरूपाणि पञ्च चारित्राणि, एषां द्वन्द्व एतान्येव भेदः प्रकारस्तस्मात् । संवरः पूर्वोदिताऽऽस्रवस्य निरोधः, शुभाशुभकर्मग्रह- 10 णहेत्वात्मपरिणामाभाव इति यावत् । अर्थोऽयं संवरणं संवर इति व्युत्पत्त्या विज्ञेयः । संत्रियते कर्मानेनेति व्युत्पत्या तु संवरस्समित्यादयः । समित्यादिभिर्हि कर्म संब्रियते, तथा च शुभाशुभकर्मादानाभावे समित्यादयः करणमिति तात्पर्यम् ।। अधुना निर्जरां विभजते
बाह्याभ्यन्तरषट्करूपतपोभेदेन द्वादशप्रकारा निर्जरा। 15 बाह्येति । तपो हि द्विविधं बाह्यमाभ्यन्तरञ्चेति, तत्रानशनोनोदरिकावृत्तिसंक्षेपरसत्यागकायक्लेशसंलीनतारूपं षड्विधं बाह्यं तपः। प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायध्यानोत्सर्गरूपञ्च षड्विधमाभ्यन्तरं मिलित्वा च द्वादशप्रकाराणि तपांसि, एतान्येव च निर्जराशब्दवाच्यानीति तस्या अपि द्वादशविधत्वं, यद्यपि बाह्याभ्यन्तररूपाणि तपांसि कर्मादानाभावास्मकसंवरकरणेष्वन्तर्गतानि, तस्मादेषामेव निर्जरात्वे संवरैकदेशो निर्जरेति स्यात्तथा च 20 संवरवन्नेदं प्रधानं तत्त्वमिति नवत्वव्याघातस्तथापि कर्मसंश्लिष्टेनात्मना कर्मादानान्निवृत्तेनेव संश्लिष्टकर्महीनेनापि भवितव्यमेवान्यथा बन्धविनिर्मुक्तिस्तस्य न भवेदेव, ततश्च संश्लिष्टकर्मप्रहाणमप्यावश्यकमतस्तदपि तत्त्वमेव, तदेव च निर्जरा तस्या उपायोऽवश्यं विधेयः, स चोपायस्तप एव, तस्य त्वागच्छत्कर्मनिरोधे संश्लिष्टकर्मप्रहाणे च सामर्थ्यादुभयाङ्गतया कीर्तनमिति न कोऽपि दोषः॥
. 25 सम्प्रति बन्धं विभजते
१. अत्र कर्मव्युत्पत्त्या क्षुधादीनां परीषहत्वमुक्तमेतत्तत्वमग्रे वक्ष्यते । २. प्रधानतयेत्यादिः ।