SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ तत्त्वन्यायविभाकरे [प्रथमकिरणे रायपञ्चकमन्तरायस्य, दर्शनावरणीयनवकं दर्शनावरणीयस्य, मिथ्यात्वकषायपञ्चविंशतिरूपाः षड्विंशतिविधा मोहनीयस्य प्रकृतयः । नरकायुरायुषो नीचैर्गोत्रं गोत्रस्यासातं वेदनीयस्य प्रकृतिः । शेषाणि नरकगत्यानुपूर्वी तिर्यग्गत्यानुपूर्येकद्वित्रिचतुरिन्द्रियजात्यप्रथमसंहननप ञ्चकाप्रथमसंस्थानपञ्चकाप्रशस्तवर्णचतुष्कोपघातकुखगतिस्थावरदशकानि चतुर्विंशनामप्रकृ5 तयो विज्ञेयाः॥ साम्प्रतमाश्रवं विभजते आश्रवस्तु इन्द्रियपश्चककषायचतुष्काव्रतपञ्चकयोगत्रिकक्रियापञ्चविंशतिभेदात् द्वाचत्वारिंशद्विधः। आश्रवस्त्विति । कायवाङ्मनसां क्रियाविशेषो योगापरपर्याय आत्मकायाद्याश्रय 10 आश्रव उच्यते, स च यद्यपि सकषायस्याकषायस्य च भवति तथाप्यत्र सकषायस्यैवाश्रवं विभजते, स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपमिन्द्रियपञ्चकं, क्रोधमानमायालोभरूपं कषायचतुष्कं, हिंसाऽसत्यस्तेयाब्रह्मपरिग्रहरूपमव्रतपञ्चकं, कायवाङ्मनोरूपं योगत्रिकं, कायिक्यधिकरणिकी प्रादोषिकीपारितापनिकीप्राणातिपातिक्यारंभिकीपारिग्रहिकीमायाप्रत्ययिकीमिथ्यादर्शनप्रत्ययि क्यप्रत्याख्यानिकीदृष्टिकीस्पृष्टिकीपातीत्यकीसामन्तोपनिपातिकीनैःशस्त्रिकीस्वाहस्तिक्याज्ञाप15 निकीविदारणिक्यनाभोगप्रत्ययिक्यनवकांक्षप्रत्ययिकीप्रायोगिकीसामुदायिकीप्रेमप्रत्ययिकीद्वेष प्रत्ययिकीर्यापथिकीरूपाः क्रियापञ्चविंशतिः, एषां द्वन्द्व एता एव भेदो विशेषस्तस्मादित्यर्थः । यद्यपि योगेन्द्रियकषायावतानां सकषायसम्बन्धिनां क्रियास्वभावानतिवृत्तेः क्रियामात्रमेवास्रवः प्रसक्तस्तथापि तेषां द्रव्यास्रवत्वं शुभाशुभानवपरिणामाभिमुखत्वात् , भावास्रवस्तु कर्मादानं, तच्च पञ्चविंशतिक्रियाभिरिति तेषां पृथग्ग्रहणं, तत्रावतपञ्चकं सकलास्रवजालमूलं, 20 तत्प्रवृत्तावेवास्रवेषु प्रवृत्तिस्तन्निवृत्तौ च सर्वास्रवेभ्यो निवृत्तिः, अत्र कषायचतुष्कं सहकारि, उभयोरनयोः सत्त्वे इन्द्रियपञ्चकमास्रवेषु प्रवर्त्तते तदनन्तरञ्च पञ्चविंशतिक्रिया आस्रवकारणिकाः प्रवर्त्तन्ते, सर्वत्र च कायवाङ्मनोयोगस्सहकारी भवति । तथा च क्रियापञ्चविंशतिः नैमित्तिकी, इतराणि तु निमित्तानि यथा स्पर्शनेन्द्रिय कारणं स्पर्शनक्रिया कार्य तस्मिन् सति स्पृष्टिकी क्रिया, मूर्छा कारणं परिग्रहः कार्य तस्मिन् सति पारिग्रहिकी 25 क्रिया, क्रोधः कारणं प्रदोषः कार्य तस्मिन् सति प्रादोषिकी क्रिया, मानः कारण मप्रणतिः कार्यं तस्मिन् सति प्रातीत्यकी किया, कारणं माया कार्य कौटिल्यं तस्मिन् सति मायाप्रत्ययिकी क्रिया, प्राणातिपातः कारणं कार्य प्राणातिपातिकी क्रिया इत्येवं यथासंभवं निमित्तनैमित्तिकभावो विज्ञेयः ।।
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy