________________
लोकस्वरूपम् ] न्यायप्रकाशसमलहते
:५७५: विभक्तानि, तथा च भरतहैमवतयोर्मध्यस्थस्वाद्धिमवान् तयोविभागमापादयति, हैमवतहरिवर्षयोर्मध्यगत्वान्महाहिमवान् तयोर्व्यवच्छेदक इत्येवं कृतो क्षेत्रविभाग इति भावः, अत्र विस्तरस्तु ग्रन्थान्तरादवसेयः । अथ जम्बूद्वीप इव वर्षवर्षधरादीनां संख्यानियम धातकीखण्डस्य पुष्करार्धस्य चाहैवमेवेति, जम्बूद्वीपबदेवेत्यर्थः, धातकीखण्ड इति, धातकीनां वृक्षविशेषाणां खण्डो वनसमूहो धातकीखण्डस्तद्युक्तो द्वीपोऽपि धातकीखण्डो लवण- 5 समुद्रं परिक्षिप्य स्थितः कालोदसमुद्रपरिक्षिप्तः वलयाकारसंस्थानसंस्थितो विजयवैजयन्तजयन्तापराजितरूपद्वारचतुष्टययुतश्च । लक्षचतुष्टयविष्कम्भो जम्ब्वपेक्षया द्विगुणभरतादिक्षेत्रयुतः तद्विभाजकद्वादशवर्षधरपर्वतविलसितश्च । द्वे भरतक्षेत्रे द्वे हैमवतक्षेत्रे इत्येवं तथा द्वौ हिमवन्तौ द्वौ महाहिमवन्तावित्येवं क्रमेण च द्विगुणक्षेत्रपर्वताः मेर्वादयोऽपि द्वौ द्वौ वेदितव्याविति भावः । पुष्करार्धे चेति, पद्मबाहुल्यात् पुष्करद्वीपं, तदर्धभागे द्वीप इत्यर्थः, च- 10 शब्देन जम्बूद्वीपापेक्षयैव क्षेत्रादीनामत्र द्वैगुण्यं सूच्यते न तु धातकीखण्डापेक्षया, तथा च यथा धातकीखण्डे भरतादिक्षेत्रपर्वतादीनां द्वैगुण्यं तथा पुष्करार्धेऽपि जम्बूद्वीपापेक्षं द्वैगुण्यम् , तत्र पुष्करद्वीपः कालोदसमुद्रपरिक्षेपी षोडशलक्षविष्कम्भस्तस्यार्धमारातममष्टौ योजनलक्षाणि तस्मिन् पुष्करार्धे एव द्वैगुण्यं भरतादिक्षेत्राणां हिमवदादिपर्वतानाश्च नापरार्धे, पुष्करद्वीपार्धविभागकारी च मानुषोत्तरो नाम सुनगरप्राकारवृतश्शैलविशेष इति भावः ॥ 15
अथैवंभूतेषु सार्धद्वयद्वीपेषु आर्यम्लेच्छभूयिष्ठेषु कर्माकर्मभूमिप्रज्ञापनायाह
मेरुगिरेर्दक्षिणतो निषधस्योत्तरतो देवकुरवः, नीलपर्वतादक्षिणेन तदुत्तरेणोत्तराः कुरवः, देवकुरूत्तरकुरुभ्योऽन्यत्र भरतैरावतविदेहाः कर्मभूमयः॥
मेरुगिरेरिति । पल्योपमस्थितिकदेवकुरुनामदेवसम्बन्धाद्देवकुरवः, एते च विदेह- 20 क्षेत्रे बोध्याः। उत्तरकुरूनाह नीलपर्वतादिति, तदुत्तरेणेति, देवकुरूत्तरेणेत्यर्थः, एवश्व विदेहा मन्दरदेवकुरूत्तरकुरुभिर्व्यवच्छिन्नमर्यादा एकक्षेत्रान्तःपातिनोऽपि क्षेत्रान्तरा इव भवन्ति परस्परेण तत्रत्यमनुष्याणां गमनागमनाभावादिति बोध्यम् , उपसंहरति देवेति, विदेहान्त:पातिनां देवकुरूत्तरकुरूणां कर्मभूमित्वप्रसङ्गवारणायान्यत्रेति, तथा च देवकुरूत्तरकुरवो हैमवतादयश्वाकर्मभूमय इति भावः, भरतैरावतविदेहा इति, पञ्च भरतानि पञ्चैरावतानि 25 पञ्च विदेहा इत्यर्थः, कर्मभूमय इति, यद्यप्यष्टविधस्य कर्मणो बन्धस्तत्फलानुभवनं सर्वेष्वेव
१. कल्पपादपफलोपभोगप्रधाना भूमयो हैमवतपञ्चकहरिवर्षपञ्चकदेवकुरुपञ्चकोत्तरकुरुपञ्चकरम्यकपञ्चकहैरण्यवतपञ्चकरूपास्त्रिंशदकर्मभूमयः । क्षेत्रभेदेनामुनाऽकर्मभूमिका अपि त्रिंशद्विधाः, हैमवतपञ्चके हैरण्यवतपञ्चके