________________
.10
हेतुलक्षणम् ]
न्यायप्रकाशसमलङ्कृते. वतोऽनुमानोत्पत्तिस्स्यात् । एवं ज्ञानद्वयादेव सर्वत्रानुमानोत्पत्त्या निरुक्तज्ञानद्वयजन्याति.. रिक्तपरामर्शात्मकविशिष्टज्ञानस्यानुमानहेतुत्वमप्रामाणिकमेवेति बोध्यम् , तथाकल्पने गौरवात् प्रयोजनाभावाच्च । अनुमानं दृष्टान्तयति यथेति, गृहीतधूमस्य स्मृतव्याप्तिकस्य च यत्पर्वतो वतिमानिति विज्ञानमुदेति तदनुमानमिति भावः ॥
इदानीमनुमानलक्षणघटकहेतुलक्षणमाह
निश्चितव्याप्तिमान हेतुः । यथा वह्नौ साध्ये धूमः । व्याप्तिमत्त्वमेव हेतो रूपं न तु पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वात्मकं त्रिरूपं, अबाधित: त्वासत्पतिपक्षितत्वाभ्यां पश्चरूपं वा, असाधारणत्वाभावात् ॥ .. :'
निश्चितेति । निश्चिता निर्णीता चासौ व्याप्तिश्च निश्चितव्याप्तिस्ततो नित्ययोगे मतुब् अत एव निश्चिता व्याप्तिर्यस्मिन्निति बहुव्रीहिर्न कृतः, निश्चयविषयव्याप्तेर्नित्यसम्बन्धस्य कर्मधारयोत्तरमतुबन्तेनैव लाभात् । एवञ्च निश्चितव्याप्त्या नित्यसम्बद्धो हेतुरिति भावः । " हेतुं दृष्टान्तयति यथेति । ननु हेतुर्निश्चितपक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वरूपत्रययुक्त' एव, तत्र पक्षसत्त्वं ह्यसिद्धत्वव्यवच्छेदार्थ सपक्षसत्त्वं विरुद्धत्वव्यवच्छेदार्थ विपक्षा-' सत्त्वश्चानैकान्तिकत्वव्यवच्छेदार्थ निश्चीयते तेषामनिश्चये तु असिद्धादिहेतोरप्यनुमानापत्तिः प्रसज्येतेत्याशङ्कायामाह व्याप्तिमत्त्वमेवेति, एवशब्देन व्यवच्छेद्यमाह नत्विति ।। त्रिरूपमिति बौद्धानामेवमभ्युपगमः । नैयायिकास्तु बाधितसत्प्रतिपक्षितहेतुव्युदासाया- 15 बाधितत्वासत्प्रतिपक्षाभ्यां प्रोक्तत्रिरूपं हेतो रूपमिति वदन्ति तदपि नेत्याहाबाधितत्वेति । अनयोर्हेतुरूपत्वाभावे कारणमाहासाधारणत्वाभावादिति । अविनाभावनियमनिश्चयादेव दोषत्रयादिपरिहारोपपत्तेरविनाभाव एव हेतोरसाधारणं रूपं, स चासिद्धे विरुद्धेऽनैकान्तिके वा न सम्भवति, तदभावाच्च त्रिरूपे विद्यमानेऽपि हेतोर्गमकत्वं न दृष्टं, यथा स श्यामो मैत्रातनयत्वादितरमैत्रापुत्रवदित्यादौ । न च नैयत्येन विपक्षव्यावृत्तिर्नास्तीति वाच्यम् , 20 विपक्षान्नियमेन व्यावृत्तेरेव व्याप्तित्वेनेतररूपद्वयवैयर्थ्यापत्तेः । पक्षधर्मत्वाभावेऽषि उदे. प्यति शकटं कृत्तिकोदयात्, उपरि सविता भूमेरालोकवत्त्वात् अस्ति नभश्चन्द्रो जलचन्द्रा
१. नैयायिकानां मतेऽपि हेतुज्ञानसम्बन्धज्ञानयोरावश्यकत्वमेव, साध्यव्याप्यहेतुमत्ताज्ञानरूपपरामर्शात्मकविशिष्टज्ञानं प्रति विशेषणज्ञानमुद्रया तयोः कारणत्वात् , तथा च ताभ्यामेवानमित्युत्पत्त्या व्यर्थः परामर्श इति भावः ॥ २. अयम्भाव: व्याप्तिरेव केवलं हेतोः स्वरूपं. सत्त्वासत्त्वे तु तद्धर्मों, न हि धर्मिसत्त्वे धर्मा-- स्सदा सर्वे भवन्त्येवेति नियमः, पटादेः शुक्लत्वादिधमळभिचारात् यद्यपि सत्त्वासत्त्वधर्मों क्वचिद्धेतौ तथापि धर्मिस्वरूपा व्याप्तिर्भविष्यतीति न विरोधः । यत्रापि च धूमादी सत्त्वासत्त्वे हेतौ दृश्येते तत्रापि व्याप्तरेषः प्राधान्यमतस्सत्त्वासत्त्वादिकं साधारणमिति ॥ ...- ....... ... ..........