SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ :३२: तस्वन्यायविभाकरे [ चतुर्थकिरणे गामानयेतिवाक्येति, गामानयेत्यनुकरणं पदं तद्बोधकञ्चेतिपदं, सस्य च वाक्यपदेन ' सह सुपा' इत्यनेन समासः । एवमग्रेऽपि । तत्र प्रयुक्तपदस्य वाक्यपदेन समनन्तरपदस्य प्रवृत्तिपदेन जन्यपदस्यानुमानज्ञानपदेनान्वयः । प्रेक्षणं बालनिष्ठं, अवशिष्टं मूलं स्फुटार्थम् । नन्वावापोद्वापाभ्यां क्वचिदेव तर्कस्समुल्लसतीत्युक्तं तत्किमन्येनापि प्रकारेण स 5 समुदेतीति जिज्ञासायामाह क्वचिच्चेति । अत्रायं भावः, कश्चिदाप्तस्वयं तर्केण वाच्यवाचकभावं शब्दार्थयोरवगत्य परं प्रति बोधयितुं परस्मिन्स्तदनुसारितर्कोत्पत्तिहेतुं परार्थतर्कमभिधत्ते, वत्स ! गोजातीयोऽर्थो गोजातीयशब्दवाच्यो गोजातीयश्च शब्दो गोजातीयार्थस्य वाचक इत्यवेहीति, ततश्चासौ वाच्यवाचकयोरुपलम्भानुपलम्भद्वारेण तथाप्रतिपद्यमानस्तकर्का देव वाच्यवाचकभावं विजानाति, इयञ्च व्याप्त्या वाच्यवाचकभावप्रतीतिर्बोध्या, शृङ्गग्राहि10 कतया तु नियतव्यक्तावयं पुरोवर्ती भावोऽस्य शब्दस्य वाच्य इति, तथाऽऽगमादेरपि सा भवति, तदूवं तु व्याप्तिद्वारेण तर्कादेव प्रत्येति, इत्थम्भूतसर्व इत्थम्भूतस्य सर्वस्य शब्दस्य वाच्य इत्थम्भूतशब्द इत्थम्भूतस्य सर्वस्यार्थस्य वाचक इति ।। ननु वाच्यवाचकभावविषयके तर्केऽपि व्याप्तिज्ञानात्मकतर्क इवानुभवस्मृत्योः क्वचिदेव कारणत्वं किं वा सर्वत्रेत्यत्राह तर्के चेति, वाच्यवाचकभावविषयकेत्यादिः, अन्यथा साक्षादेव जायत 15 इत्यनेन विरोधापत्तेः, कारणमिति, तथा चात्र तयोः कारणत्वं नियतमिति भावः । अथ तक निगमयतीतीति ।। इति श्रीमद्विजयानन्दसूरीश्वरपट्टालंकारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्य. स्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्वन्यायविभाक रस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायामनुमानपरिकरो नाम तृतीयः किरणः॥ 20 . अथ चतुर्थः किरणः ॥ १. अथानुक्रमायातमेतेषां कार्यभूतमनुमानं स्वरूपयति हेतुज्ञानव्याप्तिस्मरणकारणकं साध्यविज्ञानमनुमानम् । यथा पर्वतो वह्निमानिति विज्ञानम् ॥ हेतुज्ञानेति । हेतोर्वक्ष्यमाणस्वरूपस्य ज्ञानं निश्चयः, व्याप्तेरविनाभावरूपायास्स्मरणं 25 ते कारण यस्य तथाभूतं साध्यस्याभिधास्यमानस्वरूपस्य विज्ञानं निश्चयोऽनुमानमित्यर्थः । अत्र हेतुज्ञानं व्याप्तिस्मरणश्च मिलित्वाऽनुमितौ कारणमन्यथा विस्मृतव्याप्तेरनधिगतव्यातेर्वाऽत्रस्थमनुष्यस्य नारिकेलद्वीपवासिनो वा हेतुज्ञानमात्रात्तदभाववतो वा व्याप्तिस्मरण
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy