________________
: १५८ :
तत्त्वन्यायविभाकरे
[ सप्तमकिरणे
मसमये निद्राद्विकं स्वरूपसत्तापेक्षया क्षीणं, चतुर्दशानां च प्रकृतीनां चरमसमये क्षयः, ततोऽनन्तरसमये केवली जायत इति क्षपकश्रेणिः ॥ अथोपशम श्रेणिस्तदारम्भकोऽप्रमत्तसंयत एव, उपशमश्रेणिपर्यवसाने स्वप्रमत्तप्रमत्तसंयत देश विरताविरतानामन्यतमो भवति, अन्ये त्वविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमोऽनन्तानुबन्धिनः कषायानुपशमयति 5 दर्शनत्रिकादिकं तु संयम एव वर्त्तमान इत्याहुः । तत्र प्रथममनन्तानुबन्धिनामुपशमनाऽभिधीयते, अविरतादीनामन्यतमोऽन्यतमस्मिन् योगे वर्त्तमानस्तेजः पद्मशुकुलेश्यान्यतमलेश्या - युक्तः साकारोपयोगयुक्तोऽन्तः सागरोपमकोटी कोटिस्थितिसत्कर्मा करणकालात्पूर्वमप्यन्तर्मुहूर्त्तं यावद्विशुद्ध्यमानचित्तसन्ततिरवतिष्ठते, तथावतिष्ठमानश्च परावर्त्तमानाः प्रकृतीः शुभा एव बध्नाति, नाऽशुभाः, प्रतिसमयश्चाऽशुभानां कर्मणामनुभागमनन्तगुणहान्या करोति 10 शुभानाश्चाऽनन्तगुणवृद्ध्या, स्थितिबन्धेऽपि च पूर्णे सत्यन्यं स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमासंख्येय भागहीनं करोति, पूर्णे चान्तर्मुहूर्ते क्रमेण प्रत्येकमान्तर्मुहूर्त्तकानि त्रीणि यथाप्रवृत्त्यादीनि करणानि करोति, चतुर्थी तूपशमाद्धां, करणवक्तव्यता च सर्वापि कर्मप्रकृतेरवसेया, अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु एकस्मिन् भाषेऽवतिष्ठमानेऽनन्तानुबन्धिनामधस्तादावलिकामात्रं मुक्त्वाऽन्तर्मुहूर्त्तमान15 मम्तरकरणमभिनवस्थितिबन्धाद्धासमे नान्तर्मुहूर्तेन करोति, अन्तरकरणदलिकं चोत्कीर्यमाणं बध्यमानासु परप्रकृतिषु प्रक्षिपति प्रथमस्थित्यावलिकागतं च दलिकं स्तिबुकसंक्रमेण वेद्यमानासु परप्रकृतिषु प्रक्षिपति, अन्तरकरणे च कृते द्वितीयसमयेऽनन्तानुबन्धि-: नामुपरितनस्थितिदलिकमुपशमयितुमारभते, तथा हि प्रथमसमये स्तोकं, द्वितीयसमये ततोऽसंख्यातगुणं, तृतीयसमयेऽपि ततोऽसंख्येयगुणं यावदन्तर्मुहूर्त्तेन साकल्यतोऽनन्तानुबन्धिन 20 उपशमिता भवन्ति, उपशमना नाम यथा रेणुनिकरः सलिलबिन्दुनिवहैरभिषिच्याभिषिच्य द्रुघणादिभिर्निकुट्टितो निस्पन्दो भवति तथा कर्मरेणुनिकरोऽपि विशुद्धिवारिपूरेण परिषिच्यः परिषिच्यानिवृत्तिकरणरूपद्रुघणनिकुट्टितः संक्रमणोदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यो भवति, अन्ये त्वनन्तानुबन्धिनामुपशमनां न मन्यन्ते किन्तु विसंयोजन-क्षपणां, सा
१. याः प्रकृतयोऽन्यस्याः प्रकृतेर्बन्धमुदयं वा विनिवार्य स्वकीयं बन्धमुदयमुभयं वा दर्शयन्ति ताः परावर्त्तमानाः । तत्र ज्ञानावरणपञ्चकमन्तरायपञ्चकं दर्शनावरणचतुष्टयं पराघाततीर्थकरोच्छ्वास मिथ्यात्वभयजुगुप्सागुरुलघूपघातनिर्माणतैजसवर्णादिचतुष्ककार्मणः नि- चेत्येकोनत्रिंशत्प्रकृतयो बन्धमुदयश्चाश्रित्यापरावर्त्तमाना:, आसां बन्धस्योदयस्य वा शेषप्रकृतिभिर्बध्यमानाभिवैद्यमानाभिर्वा हन्तुमशक्यत्वात् । शेषा बन्धमाश्रित्यैकनवर्तिसंख्या उदयापेक्षया सम्यक्त्वसम्यङ्मिथ्यात्वसहितास्त्रिनवतिः परावर्त्तमानाः ॥ षोडश कषाया निद्रापञ्चकं च स्वोदये सजातीयप्रकृत्युदयनिरोधात्परावर्त्तमानाः स्थिरशुभास्थिराशुभप्रकृतयो बन्ध प्रति परावर्त्तमानाः ॥ इतरास्तु बन्धोदयाभ्यामपि परावर्त्तमाना इति ॥