________________
क्षपकश्रेणिः ]
न्यायप्रकाशसमलङ्कृते । समयोनावलिकाद्विकबद्धमात्रमेव, शेषस्य गुणसंक्रमेण लोभे प्रक्षिप्तत्वात् ततो लोभस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्त, संज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति तस्या दलिकं समयोनावलिकाद्विकेन कालेन गुणसंक्रमेण लोभे सर्वं संक्रमयति, संज्वलनलोभस्य च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकामानं शेषं जातं, ततो लोभस्य द्वितीय किट्टिदलिकं द्वितीयस्थिति- 5 गतमाकृष्य प्रथमस्थितिं करोति वेदयते च, तां च वेदयमानस्तृतीयकिट्टिदलिकं गृहीत्वा सूक्ष्मकिट्टीः करोति तावद्यावद् द्वितीयकिट्टिदलिकस्य प्रथमस्थितीकृतस्य वेद्यमानस्य समयाधिकावलिकामानं शेषः, तस्मिन्नेव च समये संज्वलनलोभस्य बन्धव्यच्छेदो बादरकषायोदयोदीरणाव्यवच्छेदोऽनिवृत्तिबादरसम्परायगुणस्थानकव्यवच्छेदश्च युगपज्जायते ततस्सूक्ष्मकिट्टिदलिकं द्वितीय स्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तदानीमसौ सूक्ष्मसम्प- 10 राय उच्यते, पूर्वोक्ताश्चावलिकास्तृतीयकिट्टिगताः शेषीभूतास्सर्वा अपि वेद्यमानासु परप्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति प्रथमद्वितीयकिट्टिगताश्च यथास्वं द्वितीयतृतीयकिट्टयन्तर्गता वेद्यन्ते, सूक्ष्मसम्परायश्च लोभस्य सूक्ष्मकिट्टीर्वेदयमानः सूक्ष्मकिट्टिदलिकं समयोनावलिकाद्विकबद्धं च प्रतिसमयं स्थितिघातादिभिस्तावत्क्षपयति यावत्सूक्ष्मसम्परायाद्धायाः संख्येया भागा गता भवन्त्येकोऽवशिष्यते, ततस्तस्मिन् संख्येये भागे संज्वलनलोभं सर्वापवर्त्तनयाs. 15 पवर्त्य सूक्ष्मसम्परायाद्धासमं करोति, सा च सूक्ष्मसम्परायाद्धाऽद्याप्यन्तर्मुहुर्तमाना, ततः प्रभृति च मोहस्य स्थितिघातादयो निवृत्ताः, शेषकर्मणान्तु प्रवर्त्तन्त एव, तां च लोभस्यापवर्त्तितां स्थितिमुदयोदीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामानं शेषः, तत उदीरणा स्थिता, तत उदयेनैव केवलेन तां वेदयते यावच्चरमसमय, तस्मिश्च चरमसमये ज्ञानावरणपञ्चकदर्शनावरणचतुष्कयशःकीऍञ्चैर्गोत्रान्तरायपञ्चकरूपाणां षोडशकर्मणां बन्ध- 20 व्यवच्छेदः, मोहनीयस्योदयसत्ताव्यवच्छेदश्च भवति, ततोऽसौ क्षीणकषायो जायते, तस्य च शेषकर्मणां स्थितिघातादयः पूर्ववत्प्रवर्त्तन्ते यावत्क्षीणकषायाद्धायाः संख्येया भागा गता भवन्त्येकस्संख्येयो भागोऽवतिष्ठते, तस्मिंश्च ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयनिद्राद्विकरूपाणां षोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति, केवलं निद्राद्विकस्य स्वस्वरूपापेक्षया समयन्यून सामान्यतः कर्मरूपतया तु तुल्यं, 25 सा च क्षीणकषायाद्धाऽद्याप्यन्तर्मुहूर्तमाना, तप्तः प्रभृति च तेषां स्थितिघातादयः स्थिताः, शेषाणान्तु भवन्त्येव, तानि च षोडशकर्माणि निद्राद्विकहीनानि उदयोदीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामानं शेषः, तत उदीरणा निवृत्ता, तत आवलिकामानं यावदुदयेनैव केवलेन तानि वेदयते यावत्क्षीणकषायाद्धाया द्विचरमसमयम् , तस्मिश्च द्विचर