________________
: ७३:
यशःकात्तिनाम ]
न्यायप्रकाशसमलङ्कृते कर्ममात्रे शुभत्वप्रयोजकत्वे सति कर्मत्वस्य सत्त्वाव्यभिचारवारणायोत्तरशरीरनिष्ठेति । स्थिरनामकर्मवदस्य स्थिती ॥
अथ सौभाग्यनामकर्माऽऽख्यातिअनुपकारिण्यपि लोकप्रियतापादकं कर्म सौभाग्यनाम ॥:
अनुपकारिण्यपीति । अनुपकर्ता यो लोकानां प्रियो भवति यदुदयात्तत्सौभाग्यना- 5 मेत्यर्थः । प्रियत्वं च मनस आह्वादकारित्वं, प्रशस्तवर्णादावतिप्रसङ्गवारणायानुपकारिण्यपीति । अनुपकारिण्यपि पुत्रादौ मोहनीयनिबन्धनप्रियत्वसम्भवेन तत्र व्यभिचारनिरसनाय लोकेति । देवगतिवत्परा स्थितिर्मनुजगतिवज्जघन्या ॥
सम्प्रति सुस्वरनाम सूचयति
कर्णप्रियस्वरवत्त्वप्रयोजकं कर्म सुस्वरनाम । वचनप्रामाण्याभ्युत्था- 10 नादिप्रापकं कर्माऽऽदेयनाम ॥
कर्णेति । यस्योदयात् उच्चरितश्शब्दो मधुरो गम्भीर उदारो भूयः प्रीतिकरश्च भवति तत्सुस्वरनामेत्यर्थः । दुस्स्वरनामकर्मणि व्यभिचारवारणाय कर्णप्रियेति । सौभाग्यवदस्य स्थिती । आदेयनामाचष्टे वचनेति । यस्य वचनं युक्तिरिक्तमपि प्रामाण्यमास्कन्दति यदुदयात् यस्य च दर्शनमात्रेण लोकोऽभ्युत्थानादि समाचरति तदादेयनामेत्यर्थः । स्थिती 15 च सौभाग्यवत् ॥ यशःकीर्तिनाम वक्ति
यशकीयुदयप्रयोजकं कर्म यश कीर्तिनाम। एकदिग्गमनात्मिका . कीर्तिः। सर्वदिग्गमनात्मकं यशः । दानपुण्यजन्या कीर्तिः । शौर्यजन्यं यश इति वा । इमानि त्रसदशकानि ।।
20 यश इति । यस्योदयेन यशःकीर्ती भवतस्तद्यशःकीर्तिनामेत्यर्थः । न चास्योदयेऽपि, कचिन्न यशःकीर्ती भवत इति वाच्यम् । सद्गुणमध्यस्थपुरुषापेक्षयैव तदुदयाभ्युपगमात् । तेन केनचिद्यशःकीर्तिभ्यां कीर्तित एवायशःकीर्त्या कीर्त्तितोऽपि न क्षतिः । उत्कृष्टास्य स्थितिर्देवगतिवत् जघन्या तु मुहूर्ता अष्टौ, अबाधा चान्तर्मुहूर्त्तकालः । ननु यशःकीयॊः पर्यायत्वात्कथं द्वन्द्वाश्रयेण भेद उच्यते इत्यत्राह-एकेति, एकदिग्व्यापिनी पुण्यगुणख्यातिः 25