________________
तस्वन्यायविभाकरे
। चतुर्षकिरणे पर्याप्तनामकर्माहस्वयोग्यपर्याप्तिनिवर्त्तन शक्तिसम्पादकं कर्म पर्याप्तनाम ॥
स्वयोग्येति । यदुदयादात्मा स्वस्वयोग्याः पूर्वोदिताः पर्याप्तीः प्राप्नोति तत्पर्याप्तनामकर्मेत्यर्थः । स्वयोग्यपर्याप्तिनिवर्तनशक्तिसम्पादकत्वे सति कर्मत्वं लक्षणार्थः । स्वयोग्यायाः 5 पर्याप्तः पूर्णतानिर्तिका याश्शक्तयः पर्याप्तिसंज्ञास्तासां सम्पादकमित्यर्थः । स्वयोग्यपर्याप्त्यात्मकशक्तिसम्पादकत्वे सति कर्मत्वस्यापर्याप्तनामकर्मणि सत्त्वादतिव्याप्तिरतः पर्याप्तिनिवर्तनेति शक्तर्विशेषणम् , अपर्याप्तानामपि पर्याप्तयो भवन्ति, परन्तु परिपूरिमतां नासादयन्ति, अपर्याप्ता एव ते म्रियन्त इति न दोषः । अस्यापि स्थिती पञ्चेन्द्रियवदेव ॥ ___ अथ प्रत्येकनामकर्म वक्ति
प्रतिजीवं प्रतिशरीरजनकं कर्म प्रत्येकनाम ।।
प्रतिजीवमिति । जीवं जीवं प्रतीत्यर्थः, तथा च प्रतिजीवं भिन्नभिन्नशरीरनिर्वर्तकत्वे सति कर्मत्वं लक्षणम् । भिन्नभिन्नेति पदन्तु साधारणनामकर्मणि व्यभिचारवारणाय | तस्योदयो नारकामरमनुष्यद्वीन्द्रियादिषु पृथिव्यादिषु कपित्थादिवृक्षेषु च, कपित्थादिवृक्षाणां
मूलस्कंधादौ प्रत्येकमसंख्येयजीवत्वेऽपि शरीराणामन्यान्यत्वान्न कोऽपि विरोधः । पञ्चेन्द्रि15 यवत्परा जघन्या च स्थितिः ॥
स्थिरनामकर्म लक्षयतिशरीरावयवादीनां स्थिरत्वप्रयोजकं कर्म स्थिरनाम ।
शरीरेति । यस्योदयाच्छिरोऽस्थिदन्तादीनां शरीरावयवानां स्थिरता भवति तत्स्थि• रनामकर्मेत्यर्थः । शरीरावयवस्थैर्यताप्रयोजकत्वे सति कर्मत्वं लक्षणम् , अङ्गोपाङ्गनामकर्मादौ 20 व्यभिचारवारणाय स्थैर्यतेति । अस्य परा स्थितिर्देवगतिवदपरा तु मनुजगतिवत् ॥
शुभनामकर्माभिधत्तेउत्तरकायनिष्ठशुभत्वप्रयोजकं कर्म शुभनाम ।।
उत्तरेति । नाभेरुपरितनावयवसमूह उत्तरकायः, तत्र यच्छुभत्वं पादादौ स्पर्शन परस्य शुभभावोत्पादात् पवित्रता शिर आदीनां तन्निदानभूतं कर्मेत्यर्थः । सातादौ पुण्य