SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ( ७४ ) तत्त्वन्यायविभाकरे शब्दो नित्यः कार्यत्वादिति । अत्र कार्यत्वमनित्यत्व व्याप्यम् ॥ संदिग्धव्याप्तिको हेतुरनैकान्तिकः । स द्विविधः संदिग्धविपक्षवृत्तिको निर्णीतविपक्षवृत्तिकश्चेति ॥ आद्यो यथा विवादापन्नः पुरुषो न सर्वज्ञो वक्तृत्वादिति । अत्र विपक्षे सर्वज्ञे वक्तृत्वं संदिग्धम् ॥ द्वितीयो यथा पर्वतो वह्निमान् प्रमेयत्वादिति । अत्र विपक्षे हृदादौ प्रमेयत्वं निर्णीतम् ॥ पक्षाभासस्त्रिविधः । प्रतीतसाध्यधर्मविशेषणको निराकृतसाध्यधर्मविशेषणकोऽन भीप्सितसाध्यधर्मविशेषण कश्चेति ॥ आयो यथा महानसं वह्निमदिति पक्षीकृते महानसे वह्नेः प्रसिद्धत्वादयं दोषः । इदमेव सिद्धसाधनमपि ॥ T द्वितीयो यथा वह्निरनुष्ण इति प्रत्यक्षेण निराकृतसाध्यधर्मविशेषणकः । अपरिणामी शब्द इति पक्षः परिणामी शब्द इत्यनुमानेन तथा । धर्मोऽन्ते न सुखप्रद इति धर्मोऽन्ते सुखप्रद इत्यागमेन तथा । चैत्रः काणः इति पक्षः विद्यमानाक्षिद्वयस्य चैत्रस्य सम्यक् स्मरतः स्मरणेन तथा । सदृशे वस्तुनि
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy