________________
तत्त्वन्यायविभाकरे
( ४० )
शुद्धिकः परिहारविशुद्धिकत्वं त्यजन् पुनर्गच्छायाश्रयणाच्छेदोपस्थापनीयत्वं देवत्वोत्पत्तावसंयतत्वं वा भजेत् । सूक्ष्मसम्परायस्तत्त्वं श्रेणीप्रतिपातेन त्यजन् पूर्वं सामायिकश्चेत्तत्त्वं छेदोपस्थापनीयश्चेत्तत्वं श्रेणीसमारोहणतो यथाख्यातत्वं वा यायात् यथाख्यातसंयतस्तु तत्त्वं त्यजन् श्रेणीप्रतिपाततो सूक्ष्मसम्परायत्वं असंयमं वा प्रतिपद्यते, उपशान्तमोहत्वे मरणाद्देवोत्पत्ति, स्नातकत्वे तु सिद्विगतिं प्रतिपद्यत इति ॥
संज्ञाद्वारे- सामायिकछेदोपत्यापनीयपरिहारविशुद्धिकाः संज्ञोपयुक्ता नोसंज्ञोपयुक्ता भवन्ति, संज्ञोपयुक्त आहारादिष्वासक्ताः, नोसंज्ञोपयुक्ता आहारादिष्वासक्तिरहिताः । सूक्ष्मसम्पराययथाख्यातौ तु आहारादिकर्तृत्वेऽपि नोसंज्ञोपयुक्तौ स्यातामिति ॥
आहारकद्वारे- सामायिकाश्चत्वार आहारका एव । यथाख्यातस्त्रयोदशगुणस्थानं यावदाहारकः, चतुर्दशगुणस्थाने केवलिसमुद्घाततृतीयचतुर्थपञ्चमसमयेष्वनाहारक इति ॥
भवद्वारे - सामायिको जघन्यत एकं भवमुत्कृष्टत अष्टौ भवान् गृह्णीयात् । एवं छेदोपस्थापनीयोऽपि ।