SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ द्वारनिरूपणम् (३९) बन्धद्वारे-सामायिकादयस्त्रयः अष्टौ कर्मप्रकृती: आयुर्वर्जसप्तकर्मप्रकृतीर्वा बध्नन्ति । सूक्ष्मसम्परायो मोहनीयायुर्वर्जषट्कर्मप्रकृतीबध्नाति । यथाख्यातस्तु एकादशद्वादशत्रयोदशगुणस्थानेषु वेदनीयमेव बध्नाति । चतुर्दशे तु बन्धरहित एवेति ॥ वेदनाद्वारे-सामायिकाद्याश्चत्वारोऽष्टौ कर्मप्रकृतीरनुभवन्ति । यथाख्यातस्तु निर्गन्थावस्थायां मोहवर्जसप्तकर्मप्रकृतीनां वेदको मोहनीयस्योपशान्तत्वात् क्षीगत्वाद्वा । स्नातकावस्थायां घातिकर्मप्रकृतिक्षयाचतसृणां वेदक इति ॥ उदीरणाद्वारे-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिका अष्टौ सप्त षड्वा कर्मप्रकृतीरुदीरयन्ति । सूक्ष्मसम्पराय आयुर्वेदनीयवर्जषट्कर्मप्रकृतीरायुर्वेदनीयमोहनीयवर्जपञ्चकर्मप्रकृतीर्वोदीरयति । यथाख्यातस्तु द्वे वा पञ्च वा कर्मप्रकृतीरुदीरयति चतुर्दशगुणस्थाने त्वनुदीरक इति । उपसम्पद्धानद्वारे-सामायिकस्सामायिकत्वं त्यजन् छेदोपस्थापनीयत्वं सूक्ष्मसम्परायत्वं असंयतत्वं वा प्राप्नुयात् । छेदोपस्थापनीयश्छेदोपस्थापनीयत्वं त्यजन् सामायिकत्वं परिहारविशुद्धिकत्वं सूक्ष्मसम्परायत्वं असंयतत्वं वा प्राप्नुयात् । परिहारवि
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy