SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ पुलाकादिनिरूपणम् ( ११९ ) निर्ग्रन्थः । अन्यसमयेषु विद्यमानोऽप्रथमसमयनिर्ग्रन्थः ॥ अन्तिमसमये विद्यमानश्चरमसमयनिर्ग्रन्थः । शेषेषु विद्यमानोऽचरमसमयनिर्ग्रन्थः । आद्यौ पूर्वानुपूर्त्या अन्त्यौ च पश्चानुपूर्त्या व्यपदिष्टौ । प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्तमानो यथासूक्ष्मनिर्ग्रन्थः ॥ निरस्तघातिकर्मचतुष्टयः स्नातकः । स सयोग्ययोगिभेदेन द्विविधः । मनोवाकायव्यापारवास्नातकः सयोगी । सर्वथा समुच्छिन्नयोगव्यापारवान्स्नातकोऽयोगी॥ ___ संयमश्रुतप्रतिसेवनातीर्थ लिङ्गलेश्योपपातस्थानविचार्या एते ॥. पुलाकबकुशप्रतिसेवनाकुशीलाः सामायिकसंयमे छेदोपस्थाप्ये च वर्तन्ते । कषायकुशीलाः परिहारविशुद्धौ सूक्ष्मसंपराये च । निर्ग्रन्थाः स्नातकाश्च यथाख्यात एव ॥ पुलाकबकुशप्रतिसेवनाकुशीला उत्कर्षेणानूनकाक्षराणि दशपूर्वाणि श्रुतानि धारयन्ति । कषायकुशीला निर्ग्रन्थाश्च चतुर्दशपूर्वधराः । जघन्येन
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy